SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ ११२ ॥ (*:************ तथा जिनेन्द्र चैत्यानि द्रव्यभक्तिचिकीषु'णा । रत्नस्वर्णाश्मसत्काष्ठमयानि विधिपूर्वकम् ॥ १६६ ॥ युग्मम् ॥ सुवर्णरत्नकाष्ठाद्यैर्निर्मितो यैजिनालयः । तेषां पुण्यप्रधानानां को वेद फलमुत्तमम् ॥ १७० ॥ यतः - काष्ठादीनां जिनागारे यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि तत्कर्ता स्वर्गभाग भवेत् ॥ १ ॥ एकाङ्गुष्ठादिसत्सप्तशताङ्गुष्ठावधि प्रभोः । प्रतिमा च विधातव्या मुक्तिश्रीवशकारिणी ॥ १७१ ॥ यतः - एकाङ्गुलमितं विम्बं निर्मापयति योऽर्हताम् । एकातपत्रं साम्राज्यं प्राप्य मुक्तिगृहं व्रजेत् ॥१॥ प्रतिष्ठाप्या जिनेन्द्राणां प्रतिमा निर्मिता नवाः । विधिना सूरिमन्त्रेण गुरुणा ब्रह्मचारिणा ॥ १७२ ॥ यतःप्रतिष्ठामतां यो हि कारयेत् सूरिमन्त्रतः । सोऽर्हत्प्रतिष्ठां लभते ध्रुवमागामिजन्मनि ॥ १ ॥ यावद्वर्षसहस्राणि पूजयन्ति जिनं जनाः । तावत्कालं बिम्बकर्ता लभते तत्फलांशकम् ॥ १७३ ॥ अलङ्कारास्तथा कार्या विम्बानामर्हतां पुनः । रत्नगाङ्गे यमाणिक्यरचिता गृहमेधिना ॥ १७४ ॥ एकस्यापि हि बिम्बस्यालङ्कारश्रीर्विनिर्मिता । त्रैलोक्यकमला भूषाकारित्वं कुरुते नृणाम् ॥ १७५ ॥ आर्हतः प्रतिमा नानाभेदैः सद्भक्तिभासुरम् | अर्चनीया गृहस्थेन सम्यक्त्वे शुद्धिमिच्छता ॥ १७६ ॥ विधिना जिनचैत्येषु कर्तव्यो मज्जनोत्सवः । अर्हतामभिषेकेण भवेद्राज्याधिराजता ।। १७७ ॥ यतःएकोऽपि नीरकलशो जगदीश्वरस्य स्नात्रोपयोगमुपयाति जनस्य यस्य । प्राप्नोति पापमलराशिमनन्तजन्मोद्भूतं विधूय परमोच्चपदं क्षण ॥ १ ॥ ***** **************** चतुर्थ प्रस्तावः ॥ ११२ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy