________________
चतुर्थ
सम्यक्त्वकौमुदी
प्रस्ताव
॥११॥
KXXXXXXXXXXXXXXXXXXXXXXXXX
अज्ञानाद्यन्मयाऽकारि तवायं दुःखसंगमः। क्षन्तव्यं तत्त्वया सम्यग् मिथ्यादुष्कृतमस्तु मे ॥ १५८ ॥ अज्ञानादथ विस्मृत्या तादृक्पापपदं गतः । मिथ्यादुष्कृतमातन्वंस्त्रिशुद्धया शुद्धयति ध्रुवम् ॥ १५६ ।। इदं च जैनसिद्धान्तपुस्तकं पुण्यवृद्धये । वाचनीयं त्वया चेतःस्थैर्यार्थ सार्थकं सदा ॥ १६० ॥ इत्युदीर्य समग्रेषु पुण्यकार्येषु तां पुनः । नियोज्य बहुमानेन श्रेष्ठी जज्ञे समाधिमान् ॥ १६१ ॥ तस्मिन्नवसरे तत्राजग्मुस्तिग्मद्युतिद्युतः । विश्वाम्भोजप्रकाशाय श्रीसुधर्ममुनीश्वराः ॥ १६२ ।। वन्दितुं तान् गता सोमा सम्यग्दृष्टिजनैः सह । निर्मिता गुरुभिस्त्वेवमश्रौषीद्धमदेशनाम् ॥ १६३ ॥ विंशतिस्थानकैरेव विधिना निर्मितैरिह । लभते तीर्थकुल्लक्ष्मी जीवः पीवरपुण्यवान् ॥ १६४ ॥ कानि तानि प्रणीतानि स्थानकानि मुनीश्वर ।। इत्युक्ते सोमया तत्र गुरुरादिष्टवान् यथा ॥ १६५ ॥ अर्हत्सिद्धागमाचार्यवात्सल्यादीनि विंशतिः। भवन्ति स्थानकान्यहच्छासने शिवकारणम् ॥१६६ ॥ यतःअरिहंतसिद्धपवयणगुरुथेरबहस्सुए तवस्सीसु । वच्छल्लया य एसिं अभिक्खनाणोवओगे य ॥१॥ दसणविणए आवस्सए य सीलव्वए निरइयारो । खणलवतवच्चियाए वेयावच्चे समाही य ॥२॥ अपुव्वनाणगहणे सुयभत्ती पवयणे पभावणया। एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ॥३॥ द्रव्यतो भावतश्चापि भक्तिः कार्याऽहतां दृढम् । प्रथमे स्थानके वत्से ! त्रिकालाचैनपूर्वकम् ॥ १६७ ॥ सुगन्धधूपदीपादिप्रकारैरष्टभिः सदा। पूजा कार्या जिनेन्द्राणां स्थानकेष्वखिलेष्वपि ॥ १६८॥
KXXXXXXXXXXXXXXXXXXXXXXXX*
॥११
॥