SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी ॥११॥ यद्यथा येन याग च निर्मितं कमें देहिना । तत्तथा तेन भोक्तव्यं तादृशं स्वनिधानवत ॥ १४८ ॥ उक्तं च यद्भावि तद्भवति नित्यमयत्नतोऽपि, यत्नेन चापि महता न भवत्यभावि । ___ एवं स्वकर्मवशवर्तिनि जीवलोके, शोच्यं किमस्ति पुरुषस्य विचक्षणस्य ॥१॥ श्रेष्ठिनाऽपि तदाकर्ण्य सोमाऽवादि सगद्गदम् । वत्से ! दुःखं न कर्तव्यं दुर्लक्या कर्मणां स्थितिः ॥१४॥ कलेः कालस्य माहात्म्यात्पापप्राचुर्यशालिनः । धार्मिका अपि जायन्ते यज्जने छद्मभारिणः ॥ १५० ॥ यतः अनृतपटुता चौर्ये चित्तं सतामपमानता, मतिरविनये शाठ्यं धर्म गुरुष्वपि वश्चना । ललितमधुरावाक्प्रत्यक्ष परोक्षविभाषिता, कलियुगमहाराज्यस्यैताः स्फुरन्ति विभूतयः॥१॥ धर्मछद्मपरत्वेन न ज्ञातो द्यूतकारकः । परीक्षितोऽप्ययं कूटहेमवद्वहुधा मया ॥ १५१ ॥ अतो धर्मस्त्वया कार्यः सर्वकार्यसुखप्रमः । प्रणीतः प्रीणितप्राणिश्रेणिभिः श्रीजिनोत्तमैः ।। १५२ ॥ सोमा शान्तमनाः स्माह नास्ति दुःखं मनागपि । तात ! संतापपीयूष ! त्वत्प्रसादेन मे हृदि ॥ १३॥ अधमः कामभोगेषु मछितो दुःखमानयेत् । विवेकी तु सृजेद्धर्म दुःखे जाते विशेषतः ॥ १५४ ॥ वियोगं प्राप्य मृढात्मा शोकं पुष्णात्यहर्निशम् । तथा करोति तत्त्वज्ञो वियोगो न यथा भवेत् ॥ १५५ ॥ ततस्तात ! मया कार्या धर्मकल्पद्रुसारणिः । सदा श्रीअहतां भक्तियतीनां च शिवावहा ॥ १५६ ।। इत्थं निशम्य तद्वाक्यं श्रेष्ठी हृष्टाशयो जगौ । कर्तव्यानि त्वया भद्रे ! धर्मकार्याण्यशङ्कितम् ॥ १५७ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥११०॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy