________________
सम्यक्त्व
कौमुदी
॥ १०७॥
*******
१०६ ॥
ततो यथा तथा गन्तुं मया तत्र न शक्यते । स्त्रीणामदर्शनं प्रायो गुणाय ब्रह्मचारिणाम् ॥ तथाऽपि भवता सार्धं वेश्मचैत्यनिनंसया । कदाचित्समयं प्राप्य समेष्यामि तपोऽहनि ॥ गुणपालस्ततो ज्ञात्वा पुरोगं निःस्पृहात्मनाम् । बह्वाग्रहात्समाकार्य समं तेनागमद्गृहम् ॥ ११० ॥ विधिनाऽसौ नमश्चक्रे तद्गेहे प्रतिमाः पुनः । रत्नमाणिक्यसौवर्णनिर्मिता आर्हती मुदा ॥ १११ ॥ अभोजयत् समं श्रेष्ठी स्वेन तं बहुगौरवात । आहतिर्भोजने सारं धर्मे जीवदया यथा ॥ ११२ ॥ भोजनानन्तरं श्रेष्ठी तं प्रपूज्य सुमादिभिः । निवेश्य धर्मशालायां निजायामित्यभाषत ॥ ११३ ॥ अद्य मे सफलं सर्वमजायत महाशय ! । यद्भवानतिथिः प्राप्तो धर्मपाथोनिधिर्मया ॥ ११४ ॥ सम्यग्दृष्टि' हातीतो द्वादशव्रतपालकः । यस्य पुण्योदयो भूयात्तस्य गेहेऽतिथिर्भवेत् ॥ ११५ ॥ स्थातव्यं परमत्रैव दिनानि कतिचित्त्वया । धर्मशालानिषण्णेन धर्मध्यानं च विभ्रता ॥ ११६ ॥ एकरात्रं वसेद्यत्र ब्रह्मचारी जितेन्द्रियः । स्थावरं तदपि ख्यातं तीर्थं तीर्थकरादिभिः ॥ तदाग्रहात्स्थितः सोऽपि धर्मं कुर्वन् गतस्पृहः । मायावी विस्मयं चक्रे गृहे सर्वेषु देहिषु ॥ बभाषे श्रावकं श्रेष्ठी रहस्येवं कदाचन । आजन्म ब्रह्मचारित्वं किं वा सावधिकं तव १ ॥ जजल्प स्वल्पवागेवं श्रेष्ठिनं ब्रह्मचार्यपि । अक्षाणि दुर्जयान्येव मुनीनामपि यौवने ॥ तुलनां कुर्वता तेन तपस्यायां मया विभो । प्रपन्नं ब्रह्मचारित्वं समर्यादं गुरोर्गिरा
॥
१०८ ॥
११७ ॥
११८ ॥
११६ ॥
१२० ॥
१२१ ॥
*********
****************
प्रस्तावः
॥१०७॥