________________
सम्यक्त्वकौमुदी
प्रस्तावः
॥१०६॥
EXXXXXXXXXXXXXXXXXX
सृजन्ति देवा अपि यन्नमस्यां नरेश्वराः शासनमुद्वहन्ति ।
ग्रहाः प्रसन्ना वशिनश्च दुष्टास्तद्ब्रह्ममाहात्म्यमुदाहरन्ति ॥ १५ ॥ इति श्रुत्वा गुरोः पार्थे संवेगरसवाहिना । मया ब्रह्मव्रतं किश्चिद्गृहीतं विश्वपूजितम् ॥ १६ ॥ ततस्तीथंबनेकेषु नमस्कुर्वन जिनेश्वरान । इहागमं नमस्कतु श्रीशान्त्यादिजगद्गुरून् ॥१७॥ श्रेष्ठी सुधामिवाचाम्य तेन वाचं प्रपश्चिताम् । आश्चर्योद्गतरोमाश्चश्चेतस्येवं व्यचिन्तयत् ॥ १८ ॥ सत्तपांस्येकतः सर्वाण्येकतः शीलपालनम् । एकतः सर्वतीर्थानि पुण्डरीकादिरेकतः ॥ ६ ॥ ततो महान पुमानेष विशेषात्स्तुतिभाजनम् । ब्रह्मचारिव्रतं यस्य यौवनेऽप्यतिदुष्करम् ॥१०॥ कतु तदस्य वात्सल्यं शक्यते यदि भक्तितः । गृहाश्रमतरुर्मेऽसौ तदानीं स्यात्फलेग्रहिः ॥ १०१ ॥ साधर्मिकवात्सल्यं जीवदया निग्रहः कषायाणाम् । पुण्यानुबन्धि पुण्यं सारं जिनशासने विदितम् ॥ १०२ । तमुवाच ततः श्रेष्ठी कस्मिन्नुत्तारके स्थितिः । कृतास्ति भवता पुण्यवता ब्रह्मवतांवर ! ॥ १०३॥ वात्सल्यं कतुमिच्छामि भवतो ब्रह्मचारिणः । यतः पुण्यादवाप्येत मुक्तसङ्गस्त्वणुव्रती ॥ १०४॥ निर्मायानुग्रहं तस्माद्भवानागत्य मद्गृहम् । गृहचैत्यं नमस्कृत्य विदधात्वद्य पारणम् ॥१०५॥ सोऽप्यब्रवीदिहवास्मि कृतषष्ठतपाः स्थितः। पश्चग्रासमयों वृत्तिं कुर्वन् कुर्वेऽङ्गधारणम् ॥ १०६॥ भवादृशां गृहं राजगृहव द्विश्वमण्डनम् । सुपर्वसुन्दरीतुल्यललनाभिः समाकुलम् ॥ १०७॥
EXXXXXXXXXXXXXXXXXXXXXXXX
॥१०६॥