________________
चतथं
सम्यक्त्वकौमुदी
प्रस्तावः
॥१०४॥
KXXXXXXXXXXXXXXXXXXXXXX:X)
श्रुत्वैवं वचनं तेषां रुद्रदत्तोऽब्रवीत् पुनः । अत्रार्थे मे प्रतिज्ञाऽस्तु भवतां शृण्वतामियम् ॥ ६७ ॥ पाणौकृत्य कनीमेतां स्फुरत्कङ्कणपाणिना । इहैवागत्य तद्वेषो युष्माभिः सह लीलया ॥ ६८ ॥ द्यूतैर्नवनवाकूतैर्यदि दीव्याम्यहं न हि । भवद्भिर्गणनीयोऽहं तदा विप्रबुवाग्रणीः ॥ ६६ ।। युग्मम् ॥ उत्थाय द्यूतशालायास्ततो निर्गत्य वेश्मनः । मायावी धूर्तताशाली भ्रमन् ग्रामाननेकशः ॥ ७० ॥ अभ्यस्य श्रावकाचारं समीपे कस्यचिन्मुनेः । अधीत्य श्राद्धप्रज्ञप्तिसूत्रादि स्तोत्रसंयुतम् ॥ ७१ ॥ कुशलो गुरुसेवायां निपुणश्चाहतां स्तुतौ । ब्रह्मचारितया ख्याति तन्वन्नाहतसन्ततौ ॥ ७२ ॥ भाषाशरीरगुप्तात्मा तीर्थे तीर्थे जिनेश्वरान् । नमस्कुर्वन् प्रतिग्रामं क्रमात्तत्रागतोऽन्यदा ।। ७३ ।। चतुर्भिः कलापकम् ॥ तिष्ठस्तत्र जिनाधीशसमनि छद्मवानसौ । निर्मिते गुणपालेन दशधा धर्ममादधत् ।। ७४ ॥ श्रेष्ठिनो जिनपूजाये तत्रायातवतो भवेत् । तथाविधसदाचारदम्भभृन्नयनातिथिः ॥ ७५ ॥ युग्मम् ॥ विधायाष्टविधां पूजामहतां गर्हितोज्झिताम् । तमाचष्ट सतां श्रेष्ठः श्रेष्ठी वन्दनपूर्वकम् ॥ ७६ ॥ कुतोऽस्मिन्नागमो जज्ञे भवतः श्रावकोत्तम ! । ब्रह्मचारिव्रतं कस्माद्यौवनेऽप्यातं त्वया ।। ७७ ॥ वन्दित्वा विधिना तस्मै कल्पनाशिल्पिनिर्मितम् । आरेमे निजवृत्तान्तं स वक्तुं निकृतेः पदम् ॥ ७८ ॥ षट्कर्मा सोमशर्मासीद्वाराणस्यां महापुरि । गृहाचारपरो दत्तरगया गङ्गन्या स्त्रिया ॥ ७९ ॥ नाम्ना तु रुद्रदत्तोऽहं तयोः सूनुतया स्मृतः। यौवने मदमत्तात्मा विषयविह्वलोऽभवम् ॥८॥
XXXXXXXXXXXXXXXXXXXXXXXX
॥१०४॥