SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्ताव ॥१०॥ १४४ RRN तामालोक्य महालोकरूपालङ्कारधारिणीम् । पुण्यलावण्यपीयूषवाहिनीं विममर्श सः ॥ ५३॥ विधिनिर्माणसर्वस्वमहो ! एषा नितम्बिनी । सधर्मिणी भवेद्यस्य तस्य श्लाघ्या गृहस्थितिः ।। ५४ ॥ पप्रच्छासौ ततो द्यूतकारान् कैतवमन्दिरम् । कस्यैषा नन्दिनी कस्य दयितेति निगद्यताम् ॥ ५५ ॥ तैरुक्तं सोमदत्तस्य विप्रचूडामणेः सुता । वर्धिता गुणपालेन श्रेष्ठिना परमर्द्धिणा ॥ ५६ ॥ उक्तोऽथ जनकेनायं परलोकगमक्षणे । सम्यक्त्वशालिने देया द्विजायासौ ममाङ्गजा ॥ ५७ ॥ ततोऽस्याः श्रेष्ठिना तेन सम्यग्दृष्टिद्विजोत्तमः । विलोक्यते वरः कोऽपि रत्नत्रयपवित्रितः ।। ५८॥ ईदृग्गुणवराभावादनूढा प्रौढिमीयुषी । वर्तते गुणपालस्य सदनेऽखिलसंपदि ॥ ५६ ॥ रुद्रदत्तोऽवदद्दत्ततालं तान् प्रति सस्मितः । मयैषा परिणेतव्या कैतवेनापि वर्णिनी॥६॥ वभाषिरे परे द्यूतकाराः स्फारितलोचनाः। किमप्यस्याः स्वरूपं त्वं न जानासि ? दुराशय ! ॥ ६१ ॥ याज्ञिकैः श्रोत्रियैश्चासौ कुलाचारपवित्रितः । याचिता स्वतनूजानामुद्वाहार्थ सगौरवम् ॥ ६२ ॥ नवीनोद्गमसौरभ्या मनोऽभीष्टफलावहा । कामिनी कल्पवल्लीवनायते केन केन हि ॥ ६३ ॥ न दीयते परं कस्मै श्रेष्ठिना श्रावकं विना । न हि कामगवी केन कल्प्यतेऽत्र गवाशिने ॥ ६४ ॥ निर्धनोऽपि धनाढ्यानां धुर्येव क्रियते बुधैः । स एव देहिना येन धर्मधुर्धियतेऽधिकम् ॥६५॥ द्यूतशौण्डो भवांचौरः परदाराभिलाषुकः । सतीचूडामणेस्तस्याः कथं योग्यपदं भवेत् ॥ ६६ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX KXXXXXXXXXXX ॥१०॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy