SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्ताव: ॥१०२॥ KXXXXXXXXXXXXXXXXXXXXXXXX गौरवाद्गुणपालेन भोज्यमानो निजालये । गुरुतां धर्मशास्त्रेषु स प्रापत् श्रावकबजे ॥ ३६॥ सतां संसर्गतः प्रायो गुरुनीचोऽपि जायते । रत्नश्रेणिगतः काचः प्रोच्चैः किं नो मणीयते ? ॥४०॥ श्राद्धधर्म त्रिधाशुद्धं तत्सान्निध्यादसौ द्विजः । अनेकधा समाराध्य विधायाराधनादिकम् ॥ ४१ ॥ प्रपद्यानशनं प्रान्ते शुभध्यानी समाधिमान् । अभ्यधाद्गुणपालाय श्रेष्ठिने गुणशालिने ॥ ४२॥ एषा मदङ्गजा सोमा दृढसम्यक्त्वधारिणे । भूदेवाय त्वया देया विद्येवाचारधारिणे ॥४३ ।। समृद्धायापि मिथ्यात्वमोहनीयाऽवृतात्मने । सर्वशास्त्रसुधाम्भोधेन पुनः पारदृश्वने ॥४४॥ अनूढेव वरं कन्या वरं कष्टोपजीविनी। पुंसा मिथ्यादृशा नैव परं संयोगशालिनी ॥ ४५ ॥ इत्युक्त्वा विरतः सर्वाश्रवेभ्यो धृतिमान् द्विजः । मृत्वा वैमानिको नाकी स्फुरत्तेजा अजायत ॥ ४६॥ सुतेव श्रेष्ठिना तेन सोमा सौम्यतमाशया । स्वगृहे पाल्यमानाऽभूत् क्रमाद्यौवनभारिणी ॥४७॥ श्रीसुब्रतामहासत्याः सेवया समजायत । सम्यग्सर्वज्ञधर्मज्ञा सम्यग्दृष्टिनिदर्शनम् ॥ ४८॥ तेन तस्या मनो धर्म रेमे नो विषये पुनः । विवेकी राजहंसः किं भजते पङ्किलं पयः ॥ ४९ ॥ अथात्रैव पुरे विप्रो रुद्रदत्ताभिधोऽजनि । अदत्तादाननिष्णातो घृतादिव्यसनोदधिः ॥ ५० ॥ न मन्यते गुरु देवं धर्म मित्रं च बान्धवम् । मिथ्यात्वमलिनस्वान्तो द्यूतक्रीडारतोऽनिशम् ॥ ५१ ॥ अन्यदा घुतशालायां क्रीडतस्तस्य दुर्धियः । ब्रजन्ती जिनपूजायै सोमा दृग्गोचरं गता। ५२ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥१०॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy