________________
सम्यक्त्व-* कौमुदी
चतुर्थ
प्रस्ताव:
॥१०॥
**********************
तस्या मानं जिना एव वक्तुं स्युः प्रभवो यदि । आवश्यकोपयुक्तस्य निर्जरा या हि दृश्यते ॥ ३० ॥ एवं धर्मपरस्यास्य सत्कीर्तिनगरेऽभवत् । निरन्वयोऽपि धर्मण गीयते त्रिदशैरपि ॥ ३१ ॥ अन्यदा तं सदाचारपरायणशिरोमणिम् । अभाणीद्गुणपालाख्यः श्रेष्ठी प्रष्ठो विवेकिनाम् ॥ ३२ ॥ श्रावकत्वं दयालुत्वं ब्रह्मचारित्वमुत्तमम् । नान्यत्र तादृशं दृष्टं यादृशं त्वयि दृश्यते ॥ ३३ ॥ साधर्मिकमहाभाग ! संवेगरससागर ! । तेन त्वं वन्दनीयोऽसि सर्वेषां गृहमेधिनाम ॥ ३४॥ निरारम्भतया स्थातुं युज्यतेऽतः परं तव । सावधवजंकः श्राद्धः साधुवन्महितः सताम् ॥ ३५।। मदीयवेश्मनि स्थित्वा कुर्वन धर्ममनारतम् । भोजनं प्रासुकान्नेन भवानत्र भवान् यदि ॥३६॥ विधत्ते विगतव्याधिस्तदानन्दो भवेन्मम । सुपात्रं त्वादृशं यस्मात्प्रौढपुण्यादवाप्यते ॥ ३७॥ युग्मम् ॥ यतःसत्पात्रं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री नाल्पपुण्यैरवाप्यते ॥१॥ सम्यग्दृष्टौ सदा शान्ते दादशव्रतपालके । दत्तं स्वल्पमपि प्रायो भवेत्कोटिगुणं नृणाम् ॥ २॥ मिथ्यादृष्टिसहस्रेषु सम्यग्दृष्टिगुरुः स्मृतः। सम्यग्दृष्टिसहस्रेषु गुरुरेको ह्यणुव्रती ॥ ३ ॥ अणवतिसहस्रेषु वरमेको महाव्रती। महाव्रतिसहस्रेषु वरमेको जिनाधिपः ॥ ४ ॥ जिनाधिपसमं पात्रं न भूतं न भविष्यति । यदि योगो भवेत्तेन ध्रुवं सिद्धिपदं तदा ॥५॥ इत्यायुक्त्या च युक्त्या च प्रीणितःप्रतिपन्नवान् । भोजनं श्रेष्ठिनस्तस्य वेश्मनि ब्राह्मणाग्रणीः ॥३८॥
XXXXXXXXXXXXXXXXXXXXXXXX
॥१०१॥