________________
सम्यक्त्वकौमुदी
चतुर्थ
प्रस्ताव
॥१०॥
XKXXXXXXXXXXXXXXXXXXXXX
इन्द्रोपेन्द्रादिभिस्तुल्योऽप्रतिकार्यतमः पुनः । ततो दुःखं न कर्तव्यं कर्तव्यं हितमात्मनः ॥ २३ ॥ युग्मम् ।। हितश्च प्राणिनां नूनं धर्म एव जिनोदितः । दुष्कर्माणि विलीयन्ते तमांसीव रवेर्यतः ॥ २४ ॥ यतः
दानशीलतपोभावभेदैरेष चतुर्विधः । चतुर्गतिभवानेकदुःखनि मनाशकः ॥१॥ उक्तञ्च- दानं सुपात्रे विशदं च शीलं तपो विचित्रं शुभभावना च ।
भवार्णवोत्तारणसत्तरण्डं धर्म चतुर्धा मुनयो वदन्ति ॥१॥ इति श्रत्वा गुरोः पा स विप्रः श्रावकोऽजनि । कृतार्थयन्निजं जन्म धर्मकार्यर्यथोचितैः॥ २५॥ दरिद्रोऽपि स पात्रेषु दत्ते दानमनारतम् । यतः शक्त्यहवारेण प्रदातव्यं विवेकिना ॥ २६ ॥ यतःदेयं स्तोकादपि स्तोकं न व्यपेक्षा महोदये । इच्छानुसारिणी शक्तिः कदा कस्य भविष्यति ॥१॥ धर्मेषु परमं धर्ममाद्यं ब्राह्मणलक्षणम् । ब्रह्मचर्य महाघोरं त्रिधा शुद्धं बभार सः । २७॥ यतःको देह कणयकोडिं अहवाकारेइ कोइ जिणभवणं। तस्स न तत्तियपुन्नं जत्तियबंभव्वए धरिए ॥१॥ ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः। अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् ॥२॥ एकरात्र्युषितस्यापि या गतिब्रह्मचारिणः । न सा ऋतुसहस्रण प्राप्तुं शक्या युधिष्ठिर ! ॥३॥ गरीयांसि तपास्येष विविधानि व्यधात पुनः । अन्यधर्मविधौ विभ्रदानन्दं भावांस्तथा ॥ २८ ॥ त्रिकालं जिनबिम्बानामचना सृजति स्म सः। षडावश्यककर्माणि द्विदधानो दिने दिने ॥ २९ ॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
*॥१०॥