________________
सम्यक्त्व
कौमुदी
॥ ६६ ॥
*******:
तस्य भोगावती देवी दीनासिंहरणक्षमा । सर्वसहा क्षमेवासीत्सती सन्ततिमण्डनम् ॥ ६ ॥ यस्याः पात्रदयादानात् श्रीजिनेन्द्रपदार्चनात् । व्यरंसीद्दाक्षिणः पाणिन कदापि दिवानिशम् ॥ १० ॥ कृपालुः सर्वजीवेषु स्पृहयालुः शुभार्जने । तत्राभूत् श्रावकः श्रीमान् गुणपालो गुणोज्ज्वलः ॥ ११ ॥ श्रीजिनार्चनया तीर्थयात्रया पात्रदानतः । न्यायोपात्तं निजं वित्तं यो निनाय कृतार्थताम् ॥ १२ ॥ गुणावली प्रिया तस्याभवत्सद्गुणशालिनी । शुद्धसद्दर्शनारोप विशुद्धीभूतमानसा ॥ १३ ॥ गुणपालो गुणावल्या कल्पवल्ल्येव संगतः । श्रीजैनशासनोद्याने लेभे कल्पतरूपमाम् ॥ १४ ॥ सोमदत्तोऽभवद्विप्रः सिप्रोज्ज्वलकलालयः । शुक्लवृत्ति सदाचारो दरिद्रो दीनतास्पदम् ॥ १५ ॥ सोमिला सुकुमालाङ्गी तस्यासीद्गृहमेधिनी । तयो की पवित्र श्रीः सोमा सोमानना तथा ।। १६ ।। दुर्वारज्वररोगेण मृताऽन्येद्युस्तु सोमिला । सोमदत्तस्ततो जज्ञे चिन्ताचान्तः पदे पदे ॥ छत्रभङ्गो यथा भूमौ मूलच्छेदो यथा तरौ । गृहभङ्गो गृहस्थस्य दुःसहो समये तथा ॥ साधूनां विश्वबन्धूनां सोऽन्यदा सविधेऽगमत् । संसारदुःखतप्तानां मुनयो हि सुधासरः बहुमानान्नमस्कृत्य तानसौ भद्रकाशयः । उपाविशत् पुरः शोकावेशेन विवशोऽधिकम् ॥
T
१७ ॥
१८ ॥
॥
raisal साधुभिर्भद्र ! कथं दुःखीव दृश्यसे । तेनापि जगदे तेषां निजं दुःखस्य कारणम् ॥ २१ ॥ विदधे गुरुणा तेन देशनेति कृपामयी । संसारमार्ग एवैष विषमः सर्वदेहिनाम् ॥ २२ ॥
१६ ॥
२० ॥
****
**************
चतुर्थ
प्रस्तावः
॥ ६६ ॥