________________
m
अथ प्रशस्तिः
Guvad
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो वाङ्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात् श्रीवर्धमानो जिनः ।।१।।
(उपजाति) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।।
(वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान्। संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ||३|| श्रीदानसूरिवरशिष्यमतल्लिका स, श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः। सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
(शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृन्महान,गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।।