SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो बह्वंशेन निवारितः खकरखौ -ष्ठे पिण्डवाडापुरे ||६|| (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसा निधिरूग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-र्मतिमच्छरण्यः ||७|| * तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु - तेजास्तपः श्रुतसमर्पणतेजसा सः। पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ||८|| सर्वाधिकश्रमणसार्थपतिर्मतीशः, पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः, 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः ।।९। सद्बुद्धिनीरधिविबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्ण दक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनांलोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव - श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन आराधनाट्रस्ट विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।। समतासागरपंन्यासश्रीपद्मविजयपुण्यस्मृतौ वि. सं. २०६७ ०००. - पद्ममाला. * वीर सं. २५३७
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy