________________
|
भीप्रज्ञा. श्रीहरि० ११ भाषा.
कोऽमिप्रायः १- गृहकोलिकाशब्दो हि त्रिलिंगयुक्तार्थवाचकः स्त्रीनपुसकसद्भावात् , एवं कोकिलशब्दोऽपि, एवमासन. शब्दोऽपि मंचिकासन्दकपीठकादिषु, हंता गोतमेत्यादि निर्वचनं, गर्भार्थः पाग्भावित एव, अह भंते! जातीति इत्थि
आणमणीत्यादि, पूर्वोक्तानुसारन एत्रोक्तोदाहरणापेक्षया भावनीय। अह भंते! जातीति इत्थिपण्णवणीत्यादि |स्त्रीजातिप्रज्ञापनीत्यादि, प्रागविशेषेण स्त्रीप्रज्ञापन्याः प्रतिपादितत्वात् सांप्रतं जात्या विशेषितत्वादपौनरुत्यमिति भावनीयं, अन्यथा वा आगमाविरोधतो भेदो वाच्या, एवमन्वर्थसंज्ञया प्रज्ञापनीशब्दमधिकृत्यानंतगमपर्यायत्वात् सूत्रस्य व्याख्यातानि स्त्राणि, अन्ये तु पारिभाषिकीमसत्यामृषां प्रज्ञापनीशब्दमधिकृत्य कथमपि सर्वत्र निगमनममिदधति, तत | स्वबुद्धया भावनीयमित्यलं प्रसंगेन । अह भंते मंदकुमार एवेत्यादि, मंदकुमारक-उत्तानशायको पालः सोऽनामोगिकेन *कायवीर्येण भाषापुद्गलोपादानं कृत्वा निसर्गकाले ब्रुवन् जानाति -अहमेतत् ब्रवीमीति?, अथ कोऽस्य प्रश्नस्यावकाश
इति ?, उच्यते, प्रदेशांतरे उक्तं-"बुद्धीदिवे अत्थे जं भासद तं सुतं मतीसहितं । " तत्र मतिश्रुतज्ञान मेदप्ररूपणं कुणिनाचार्येण बहुप्रकारं गाथार्द्ध व्याख्यायोपसंहनं, अथवा सामान्येनेह मतिश्रुतात्मिका बुद्धिरधिक्रियते, तथा दृष्टानर्थान् भाषत एव कदाचिदपीति संभवमात्रमंगीक्रियते, नावश्यं भाषमाण एव, तदिह भाषमाणस्य मावश्रुतमतोs
न्या मतिः, मतिमहितमिति श्रुतविज्ञानसहितमुपयुक्तस्येतियावत , यान् भाषते एवावश्यं कदाचिदपि तच्छुतमनुभाषमाणस्य * श्रुतमेवेति, यस्मान्मतिज्ञानालोचिता अपि केचिद्व्यश्रुतेनोच्यते, अवध्यादिज्ञानालोचिताच, एवं सर्वमेव हि श्रुतज्ञान ध्वनिप|रिणाममिति, मतिज्ञानं चोभयपरिणाममि युक्तं भवति, अतो विज्ञानमेव वायूपापसमिति प्रश्नः, तथाऽन्यैरप्युक्तं-"आत्मा बुदया
॥७९॥