________________
44
श्र प्रज्ञा० श्रीहरिः
भाषा स्वरूपं
११ भाषा
*
गुणाः पदार्था वेति, एतद्विपरीता मृषा, सत्यामृषोभयरूपा, परिस्थूलव्यवहारनयमतानुसारिणी चेयमवसेयेति, असत्यामृषा त्रितयविनिर्मुका, व्यवहारनयमतानुसारिण्येवेत्यर्थः, गोयमा सिय सच्चेत्यादि निर्वचनं स्यात्सस्या, स्थाच्छन्दोऽनेकांतयो तकः, शेषं सूत्रसिद्धं यावत् आराधनी सच्चेत्यादि, तत्राराध्यतेऽनयेत्याराधनी-यथावस्थितवस्त्वभिधायिनी सत्या, यथा अस्त्यात्मा सदसनित्यानित्यायनेकधर्मकलापालिंगित इति, विराधनी विपरीतवस्त्वभिधायिनी मृषा, यथा नास्त्यात्मा सन्नेव वेत्यादि, आराधनीविराधनी सत्यामृषा,यथा अधिकृत्य किंचिन्नगरं पननं वा अस्मिन् दश दारका जाता इति पंचसु जातेष्वेव मभिदधतः, या नैवाराधनीत्यादित्रयविकला सा असत्यामृषा, यथा हे देवदत्त इत्यादि, शेषं स्त्रसिद्ध यावत् अह भंते ! गाउमित्यादि, इहाराधनी यथावस्थितवस्त्वभिधायिनी सत्येत्युक्तमत इहोक्तलक्षणयोगसंशयापन्नस्तदपनोदाय पृच्छति-अथ भदंत ! गावः प्रतीता: मृगा अपि पशव:-अजाः पक्षिणः प्रतीताः, प्रज्ञापनी तदर्थकथनी, णमिति पूर्ववत , एपा सत्या भाषा नेपा भाषा मृति, कोऽभिप्राय: ?-गाव इति गोनाति प्रतिपादयति, तत्र च त्रिलिंगोऽप्यभिधेयोऽर्थोऽस्ति स्त्रीपुंनपुंसकवेदभावात् ,
एवं मृगपशुपक्षिष्वपि भावनीयं, न च ते शब्दास्त्रिलिंगाभिधायकाः, तथाऽश्रवणाद् , अपि तु पुल्लिंगगर्भा एव, भगवानाह-हंता * गोयमेत्यादि, हंतेति प्रत्यवधारणे, गौतमेत्यामंत्रणे, गाव इत्यादि प्रज्ञापनी तदर्थकथनी आराधनी यावदेषा भाषा, न एषा
भाषा मृषेति, कोऽभिप्रायः १, गाव इति गोजाति प्रतिपादयति, तत्र च त्रिलिंगोऽप्यभिधेयोऽर्थोऽस्ति स्त्रीपुंनपुंसकवेदभावात् , एवं मृगपशुपक्षिजपि भावनीय, न च ते शम्दास्त्रिलिंगामिपायकाः, तथाऽश्रवणाद, अपि तु पुंल्लिंगगर्भा एव, भगवानाह-दंता गोयमा! न मृषा जात्यभिधायित्वाज्जातेश्च त्रिलिंगार्थाव्यतिरेकात्तदभिधाने च वस्तुतो लिंगार्थानभिधानाच्छन्दशक्तिस्वामाव्यात्
॥७६॥