________________
श्रीप्रज्ञा श्रीहरि० ११भाषा०
भाषा
यामीति पर्यालोचयामि युक्तिवारेणापि इति-एवं यदूत अवधारणी भाषेति पूर्ववत् , एवं निवेद्य खमभिप्रायमधिकृतार्थनिश्च-* यायैव भगवंतं पृच्छति -अह मन्नामीति ओधारिणी भाषा, अथ प्रक्रियामश्नानन्तर्यमंगले पन्यासप्रतिवचनसमुच्चयेषु, इह*
स्वरूपं प्रश्न, ततश्च काकाऽयमर्थोऽवसेयः-अथ मन्ये एवं यथा अवधारणी भाषा, द्वितीयामिप्रायनिवेदनमधिकृत्य प्रश्नमेवाह-अह चिंतेमीति ओहारिणी भासा, अथ चिंतयाम्येवं यथाऽवधारणी भाषा, साध्विदमनवद्यमित्यभिप्राय इति, अवयवार्थ उक्त एव, अधुना मतालोचितार्थविषयमंशतः साम्यमंशतश्चामाम्यमपि संभावयन् समस्तमतालोचतार्थाविपरीततथाभावावधारणाये. दमाह-सह मण्णामीति ओहारिणी भासा, तथा समुच्चयनिर्देशावधारणसादृश्यप्रैष्येषु, इह च निर्देशे, ततश्च काकाऽयमर्थोऽ बसेय:-तथा मन्ये यथा पूर्व मतवान् , न कश्चिद्विशेष इत्यभिप्रायः, कथमिति १, एवं-यदुतावधारणी भाषा, तह तह चिंतेमीति || ओहारिणी भासा, तथा चिंतयामि यथा पूर्व चिंतितवान, न किंचित्तत्र वितथं, कथमिति !, एवं यदुतावधारणी भाषेति,* अवयवार्थो निदर्शित एच, एवं गौतमेनाभिप्रायनिवेदने प्रश्ने च कृते सति भगवानाह-हंता गोयमा ! मण्णामीति ओहारिणी भासा, अस्य प्राकृतशैल्या छांदसत्वाच्चायमर्थोऽवसेय:-हंत संप्रेषणप्रत्यवधारणविवा (पा) देषु, इह प्रत्यवधारणे, हंता गौतम! नासत्यत्वं इत्येवं यदुतावधारणी भाषेति,वेमयहमिदमित्यभिप्रायः, तथा अविकलं मन्यस्व यथा पूर्व मतवानित्येवं यदुतावधारिणी भाषा, तथाऽविकलं चिंतयस्व यथा पूर्व चिंतितवान् इत्येवं यदुतावधारिणी भाषेत्येवं तावत् पूज्यपादा व्याचक्षते, अन्ये पुनरन्यथा, तदभिप्रायं पुनरतिगंभीरत्वान्न वयमवगच्छामा, ओहारिणी ण भंते ! भासा कि सच्चेत्यादि, अपधार्यते -
॥७५॥ नयेत्यवधारणी, णमिति वाक्यालंकारे, भदंत इत्यामंत्रणे, माध्यत इति भाषा, किमिति परमाने, सता हिता सत्या, संतो सनयो।