________________
श्रीप्रज्ञा श्रीहारिक
५प्रज्ञा
नव सहस्राणि अष्टौ शतानि ९८०० पूर्वभागलब्धा द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, स तेन असंख्येयलोकाकाशप्रदेश- |* परिमाणासंख्येयकेन भाग-२००Jहारेण भागहतलग्न द्विशत्यात्मकेन राशिना हीन इत्यसंख्येयभागहीनः, तथा संख्येय-|| स्थानकानि भागहीन इति, पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस उत्कृष्टसंख्येयकपरिमाणपरिकल्पितेन दशकपरिमाणेन भागहारेण मागे हृते भागलन्धं सहस्रं, द्वितीयपतियोगिनारककृष्णवर्णपर्यायानं नव सहस्राणि, २००० पूर्वभागसहस्र(दशक)लब्धं सहस्रं तत्र प्रक्षिप्त, जातानि दश सहस्राणि, तेन उत्कृष्टपरिमाणपरिकल्पितपर्यायराशेर्दशसह-|१००० स्रस्य द्वितीयप्रतियोगिनारककृष्णवर्णपर्यायाग्रं सहस्रं उत्कृष्टसंख्येयपरिमाणपरिकल्पितेन दशकपरिमाणेन गुणकारेण गुणितः सहस्रो राशिर्जाता दशसहस्रा इति, एवमेतेन उत्कृष्टसंख्येयकपरिमाणकल्पितेन गुणकारेण हीनः संख्येयगुणहीनः, तथा असंख्येयगुणहीन इति, पूर्वोक्तपरिकल्पितपर्यायराशेर्दशसहस्रस्य प्रतियोगिनारगकृष्णवर्णपर्यायाग्रं द्विशती, असंख्येयगुणाकाशपरिमाणपरिकल्तेिन पंचाशत्परिमाणात्मकेन गुणकारेण गुणितो | द्विशतिको राशिर्जातो दशसहस्रा इति,पंचाशताऽसंख्येयलोकाकाशप्रदेशपरिमाणपरिकल्पितेन गुणकारेण हीन इति,तथा अनन्तगुणहीन इति, पूर्वोक्तपरिकल्पितपर्यायराशेर्दशसहस्रस्य द्वितीयप्रतियोगिनारककृष्णवर्णपर्यायानं शतं १००, सर्वजीवानन्तकपरिमाणपरिकल्पितेन शतपरिमाणेन गुणकारेण गणिते सराशिर्जातो दशसहस्र इति, एवमेतेन सर्वजीवानन्तकपरिमाणपरिकल्पितेन शतेन गुणकारेण हीन इति अनन्तगुणहीना, एवमधिकषट्स्थानकशब्दार्थोऽप्येमिरित्यवगाहमागहारगुणकारैर्व्याख्येय इति, मा चैवं मंस्थाः षद्स्थानकशब्दार्थनिरूपणं कुर्वाणेनाचार्येण स्वमनीषिकया भागहारगुणकाराः कल्पिता, किंतु अन्यैरपि तद्विद्भिरेवमेव भागहारगुण
॥५१॥ काराः कल्पिता इति कथं ,यसात् कर्मम्प्रकृतिसंग्रहणिकायां पदस्थानकशम्दार्थप्रतिपादकमिदं गाथासूत्रम्-"सम्बजियाणंतमसंख