SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ किशलयः श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा० विशेषे कस्मिंश्चिदनन्तत्वमपि संभवति ?, साधारणवनस्पतिकायिकानामपि किमनन्तत्वं सर्वकालमुत प्रत्येकशरीरत्वमपि कदाचित् सं-12 भवतीत्यत आह-सब्योऽवि किसलओ'इत्यादि,यः सर्वशन्दः अयमपि विशेषवाची,सर्वो वनस्पतिकायः प्रत्येकशरीरः साधारणो वा किशलयावस्था प्रति 'अणंतओ भणिओ, स एवानन्तवनस्पतिकायः प्रवृद्धि गच्छन् अनन्तो वा भवति परित्तो वा भवति,कहं , भण्णति-जइ साहारणसरीरं निव्वत्तियं तदा साहारण एव भवति, अह पत्तेयत्तं ततस्तत् किशलयं परित्तमेव भवति, विवडमाणं पुण अंतोमुहत्तं, कहं १, णिओयजीवाण अंतोमुहत्तं ठिती वणिया, तेण अंतोमुहत्ताओ परेण वद्रमाणो परितो होति, अत्र केचिद् वर्णयंति-साधारणाधिकारे पठितत्वात् साधारणकिशलयस्यैव ग्रहणमिति,तच न,अपिशब्दोपादानादुद्गच्छमिति च विशेषोपादानात, तथा च सति संभवे व्यभिचारे च विशेषणविशेष्यमाव इति वचनात् तस्मादुभयकिशलयस्यैव ग्रहणमिति । साधारणलक्षणं प्रतिपादयबाह-'समय' गाहा, समय-युगपत् व्युत्क्रान्तानां-उत्पबानां समकं तेषां शरीरनिवृत्तिर्भवति, समकं च प्राणापानग्रहणं, समकं उच्छ्वासनिश्वासौ तदुत्तरकालभाविनाविति,"एकस्स उ" गाहा, एको यदाहारादि गृह्णाति तद् बहूनां ग्रहणं, यद् बहवो गृहन्ति तदपि संक्षेपादेकस्य ग्रहणं, साधारण-सामान्यं, किं पुनः साधारणं तेषामिति ?, उच्यते-आहारः प्राणापानौ चेत्यादि, एकमिन्नाहारप्रवृत्ते सर्वे प्रवृत्ता भवंति,एवं प्राणापानयोग्यपुद्गलोपादानमोक्षप्रवृत्तिरपि भावनीया। "जह अयगोलो" गाहा,निगदसिद्धा॥ "एगस्स" गाहा, नैकादीनामसंख्येयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते,कुतः, अभावात् , नोकादिजीवगृहीतान्य. नन्तानां शरीराणि संति, अनन्तजीवपिंडत्वादेव,कथं तथुपलभ्यास्ते भवन्तीत्यत आह-'दीसंति' दृश्यन्ते शरीराणि बादराणि बादरनिगोदानामनन्तजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यते, अनन्तजीवसंघातत्वे सत्यपि शरीराणीत्यर्थः, निगोदास्तु नियमत ॥१६॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy