SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा सिद्धमेदार स्वयंबुद्धाः संतो ये सिद्धाः, 'प्रत्येकषुद्धसिद्धाः प्रत्येकबुद्धाः संतो ये सिद्धा इति, अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्रतिविशेषः | इति, उच्यते-बोध्युपषिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयंबुद्धाः बाह्यमत्ययमन्तरेणैव बुध्यते, प्रत्येकबुद्धास्तु न तद्विरहेण, श्रूयते च बाबवृषभादिप्रत्ययसापेक्षतया करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिरिति, उपघिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, | प्रत्येकबुद्धानां तु नवविधः प्रावरणवयः, स्वयंबुद्धानां पूर्वाधीते श्रुतेऽनियमा, प्रत्येकबुद्धानां तु नियमतो भवत्येव,लिङ्गप्रतिपत्तिः स्वयंबुद्धानां आचार्यसंनिधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण । 'बुद्धबोधितसिद्धाः' बुद्धा:-आचार्यास्तै| र्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुंलिंगसिद्धाः केचिनपुंसकलिङ्गसिद्धा | इति, आह-किं तीर्थकरा अपि स्त्रीलिंगसिद्धाः मवंति ?, भवंतीत्याह, यत उक्तं सिद्धप्राभृते-"सव्वत्थोवा तित्थकरीसिद्धा, | तित्थकरितित्थे णोतित्थसिद्धा असंखिजगुणा, तित्थकरितित्थे णोतित्थगरिसिद्धा संखेजगुणा, तित्थगरितित्थे णोतित्थगरसिद्धा संखेजगुणा" इति,न नपुंसकलिङ्गे, प्रत्येकबुद्धास्तु पुंल्लिङ्ग एव,स्वलिङ्गसिद्धाः द्रव्यलिङ्गं प्रति रजोहरणगच्छ(गुच्छक)धारिणः,अन्यलिंगसिद्धाः(परिव्राजकादिलिंगेन) अणेगसिद्धा' इति एकस्मिन्नेव समये अष्टशतं यावत् सिद्धं, यस्मादाह-"वचीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा । चुलसीई छण्णउती दुरहियमठुत्तरसयं च ॥१॥" सेत्तं अणंतरसिद्धअसंसारसमावण्णजीवपण्णवणा। 'से किं तं परंपर०१ इत्यादि,न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः परंपरसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वद्वितीयसमयवर्त्तिन इत्यर्थः, आदिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयसिद्धामिधानं विशेषतो द्विसमयादिसिद्धामिधानमिति, शेषं प्रकटार्थ यावत् "तंजहा एगिदिया" इत्यादि, इन्द्रो-जीवस्तस्य जीवस्य लिंगमिन्द्रियं, एकमिन्द्रियं ॥११॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy