SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा क्रमहेतुः गतिखिती अपेक्षाकारणवत्यौ कार्यत्वात् घटवत् , विपक्षबैलोक्यवपिरममावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् । आह-आकाशास्तिकायसत्ता कथमवगम्यते?, उच्यते, अवगाहदर्शनात, तथा चोक्तं-"अवगाहलक्षणमाकाश"मिति, आह-कालसत्ता कथमवगम्यते १, उच्यते, बकुलचंपकाशोकादिपुष्पफलप्रदानस्थानियमेनादर्शनात् , नियामकश्च काल इति, आह-इत्थमेव क्रमेण धर्मास्तिकायायुपन्यासः किमर्थम् , उच्यते, धर्मास्तिकायादिपदस्य मांगलिकत्वात प्रथमं धर्मास्तिकायोपन्यासः, पुनधर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्थ, पुनस्तदाधारत्वादाकाशास्तिकायस्थ, पुनरजीवत्वसाम्यात् समयस्थ, अथवा लोकालोकव्यवस्थाहेतत्वात प्रथमं धर्माधर्मास्तिकाययोः, तथा चोकं-"धर्माधम्मौ लोकव्यवस्थाहेतू" तथाऽन्यत्राप्युक्तं-"जीवादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं बलोकाख्यम् ॥१॥ धर्माधर्मविभुत्वात् सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित् स्थान च सम्मतमेतदार्याणाम् ।।२।। तस्मादधिर्माववगाढौ व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिद्ध्यति लोकस्तदविभुत्वात् ॥॥" पुनर्लोकालोकव्यापित्वादाकाशास्तिकायस्थ, पुनर्लोकेऽपि समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यमित्यलं प्रपंचेन, 'सेत्तं अरूविअजीवपण्णवणा' सा तावदियमरूप्यजीवप्रज्ञापना। पुनराह विनेयः-'से किं तं रूविअजीव०१ इत्यादि, रूपिणश्च तेज्जीवाश्चेति समासा,मूर्ता इत्यर्थः,तत्र स्कन्धा इति बहुवचननिर्देशोऽनन्तस्कन्धसत्ताज्ञापनार्थः,उक्तं च-'दव्वतो गं पोग्गलस्थिकाये अणंते' इत्यादि,स्कन्धदेशा बुद्धिपरिकल्पिताः,स्कन्धानां स्कन्धत्वपरिणतानामेव व्यादिविभाग इति,स्कन्धप्रदेशा बुद्धिपरिकल्पिताः स्कन्धत्वपरिणतानामेव प्रकृष्टा देशाः,परमाणव इत्यर्थः, परमाणुपुद्गलाः स्कन्धत्वबन्धविकलाः, केवला इत्यर्थः, ते स्कन्धादयः समासतो यथासंभवं पंचविधाः प्रज्ञप्ताः, तद्यथा-वर्णपरिणता इत्यनेन ॥९॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy