________________
श्रीप्रज्ञा
अरूप्य
जीवाः
श्रीहारिक १ प्रज्ञा
इत्यर्थः,ते चासंख्येया इतिकृत्वा बहुवचनं, अनेन चावयव्यवयवयोमैदाभेदमाह । तथा अधर्मास्तिकायः,तत्र जीवपुद्गलानां स्वाभा| विके क्रियावच्चे तत्परिणतानां तत्स्वभावाधरणादधर्मः अस्तयः-प्रदेशाः अस्तीनां कायोऽस्तिकायः, प्रदेशसंघात इत्यर्थः, अधर्मश्रासावस्तिकायश्चेति समासः, शेष भावितार्थ यावदधास्तिकायस्य प्रदेशा इति । तथा आकाशास्तिकायः, तत्र सर्चद्रव्यस्वभावाऽऽदीपनादाकाशा,स्वभावलाभावस्थानदानादित्यर्थः,आशन्दो मर्यादामिविधिवाची,मर्यादायामाकाशे भवंति भावाः स्वात्मनि च, नाकाशभावमेव यांति,अमिविधौ तु सर्वभावव्यापनाद् ,आकाश एव भवंति सर्वे भावाः, अस्तयः-प्रदेशा:-अस्तीनां कायोऽस्तिकायः, प्रदेशसंघात इत्यर्थः, आकाशश्वासावस्तिकायथेति विग्रहः,शेष भावितार्थ यावदाकाशास्तिकायप्रदेशा इति,नवरं अनंता इतिकृत्वा बहुवचनं, तथा अद्धासमयः, अद्धेति कालस्याख्या, अद्धा चासो समयति समासा, अथवा अद्धायाः समयः२, समयो-निविभागः काल इत्यर्थः, तथा चोक्तं-'कालः परमनिकृष्टस्समयाख्य' इत्यादि, अयं चैक एव, वर्तमान इतिकृत्वा कायत्वामाव इति, अतो देशप्रदेशकल्पनाऽभाव इति, तथा चातीतानागतौ समयौ न त एव, विनष्टानुत्पन्नत्वात् , भावे चातिप्रसंगात् , अत्राह-ननु च धर्मास्तिकायाधर्मास्तिकायौ स्त इत्यत्र किं प्रमाणं ?, उच्यते, अनुमानं प्रमाणं, इह गतिः स्थितिश्च सकललोकप्रसिद्ध कार्य * वर्त्तते, कार्य च परिणाम्यपेक्षाकारणाऽऽयत्ताऽऽत्मलाभं वर्त्तते, घटादिकार्येषु तथादर्शनात् , तथा च मृत्पिडमात्रादेव स्यात् , न च |*
भवति, गतिस्थिती अपि जीवपुद्गलाख्यपरिणामिकारणभावेऽपि न धर्माधर्मास्तिकायाख्यापेक्षाकारणमंतरेण भवत एव, यतश्च भावो | दृश्यतेऽतस्तत्सत्ता गम्यत इति । ततश्चायं भावार्थ:-गतिपरिणामपरिणताना जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां च स्थित्युपष्टम्मकोऽधर्मास्तिकायो मत्स्यादीनामिव मेदिनी विवक्षया जलं वा, प्रयोगश
॥८॥