________________
श्रीमज्ञा० चनसूत्रेणतदाह-न सर्वमेव सूत्रं गणधरप्रश्नतीर्थकर निर्व्वचनरूपं, किं तर्हि ?, किंचिदेव, बाहुल्येन तु तद्रूपमेव, तथा चोक्तं- "अत्थं श्रीहारि० भाइ अरहा सुतं गुंथति गणहरा निउण" मित्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः, प्रज्ञापनेति पूर्ववत्; द्विविधा-द्विप्रकारा प्रज्ञप्ता१ प्रज्ञा० *प्ररूपिता, यदा तीर्थकरगणधरा एवैवमाहुस्तदाऽयमर्थोऽवसेयः - अन्यैरपि तीर्थकरगणधरैरिति, यदा पुनरन्यः कश्चिदाचार्यस्तन्मता- *
*नुसारी तथा तदा तीर्थकरगणधरैरेवेति । द्वैविध्यमुपदर्शयन्नाह - 'संजहा जीवपण्णवणा य अजीवपण्णवणा य' तद्यथेति * वक्ष्यमाणभेदकथनोपन्यासार्थः, जीवंति जीविष्यंति जीवितवंतश्चेति जीवाः - सुखदुःख विज्ञानोपयोगलक्षणाः, जीवानां प्रज्ञापना * जीवप्रज्ञापना, न जीवा अजीवाः, जीवलक्षण विकला इत्यर्थः, तेषां प्रज्ञापना अजीवप्रज्ञापना, अत्र चकारौ द्वयोरपि प्राधान्यख्यापनार्थी, नेहान्तमस्य गुणभावः, एवं सर्वत्राक्षरगमनिका कार्या, एवं सामान्येन प्रज्ञापनाद्वये उपन्यस्ते सति विशेषतः खरूपमनव* गच्छ नाह- 'से किं तं अजीव पण्णवणा' आह 'यथोद्देशस्तथा निर्देश' इति न्यायात् किमन्यथा प्रश्नसूत्रोपन्यास इति १, उच्यते, * अल्पतरवक्तव्यत्वादजीवप्रज्ञापनायाः, अथवा अस्ति पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थमिति, एवमन्यत्राप्यालोच्य वक्त*व्यं, अधुना निर्व्वचन सूत्रमाह-'अजीव पण्णवणा दुबिहा पण्णत्ते' त्यादि, निगदसिद्धं यावत् 'अरुबी अजीव पण्णवणा दस बि- * हा पण्णत्ता' अरूपिणश्चेति समासः, अरूपिण:- अमूर्त्ताः, तामेव दशविधतां निदर्शयन्नाह - 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थ, धर्मास्तिकायः, तत्र जीवपुद्गलानां स्वाभाविके क्रियावच्चे तत्परिणतानां तत्स्वभावधारणाद्धर्म्मः अस्तयः - प्रदेशाः अस्तीनां कायोsस्तिकायः, प्रदेशसंघात इत्यर्थः, धर्मश्वासावस्तिकायश्चेति समासः, अनेन सकलमेव तदवयविद्रव्यमाह, तथा धर्म्मश्चासावस्तिका* यस्य देशः, देश इति तस्यैव बुद्धिपरिकल्पितो द्व्यादिविभागः, तथा धर्मास्तिकायस्य प्रदेशाः, प्रकृष्टा देशाः प्रदेशाः - निर्विभागा भागा
अजीवप्रज्ञा •
11611