SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ पदमान श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा० नादावुपन्यासः क्रियत इति, आह-कुतोऽयमनियम इति गम्यते १, उच्यते, इदमेवाध्ययनं ज्ञापकमिति, तथा नंद्यध्ययनादिव. दर्शनादित्यलं प्रसंगेन, चित्राधिकारयुक्तत्वात् चित्रं, श्रुतमेव रवंर, दृष्टीनां वादो दृष्टिवादो दृष्टिपातो वा तस्य नियंद इव नियंदः तत् यथा वर्णितं-कथितं भगवता श्रीमन्महावीरवर्द्धमानखामिनेन्द्रभूतिप्रभृतीनां अहमपि तथा वर्णयिष्यामि। आह-कथं छद्म. स्थस्य तथा वर्णयितुं शक्तिरिति, अत्रोच्यते, सामान्येनामिधेयपदार्थवर्णनमधिकृत्यैवममिधानाददोषः, तथा चाहमपि तथा वर्णयिष्यामि, किमुक्तं भवति ?-तदनुसारेण, म खमनीषिकयेति भावार्थः । इह च षट्त्रिंशत् पदानि भवंति, पदं प्रकरणमर्थाधिकार |* इति पर्यायाः, तानि चामूनि-'पण्णवण' गाहा 'भासा' गाहा 'ओगाहणा' गाहा 'आहारे' गाहा, एतद्गाथाचतुष्टयसंगृही.* तानि षट्त्रिंशद् ,एतेषु च जीवादीनां पदार्थानामनेकधा स्वरूपकथनं, तत्र प्रज्ञापनाबहुवक्तव्यविशेषचरमपरिणामपदेश्वित्यादि 'पण्णवणा सव्वभावाण'ति गाथाऽवयवव्याख्यानाद्भावनीया, पदोपन्यासानंतरमिदमादिसूत्रं-'से किं तं पण्णवणा" अथास्य | सूत्रस्य का प्रस्ताव इति, उच्यते,प्रश्नस्त्रमिदं, एतच्चादावुपन्यस्यन्निदं ज्ञापयति-पृच्छतो मध्यस्थस्य बुद्धिमतोऽर्थिनो भगवदर्हदुपदिटतत्त्वप्ररूपणा कार्या, नान्यस्य, तथा चोक्तं-"मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः।" तत्र सेशन्दो मागधदेशीप्रसिद्धो निपातस्तत्रशन्दार्थे, अथशब्दार्थे वा द्रष्टव्यः, स च वाक्योपन्यासार्थ इति, किमिति परिप्रश्ने, तावदिति क्रमोद्योतने, प्रज्ञापनेति प्राम्बत् , ततश्चायं समुदायार्थ:-तिष्ठतु स्थानादीनि, तत्र किं तावत्प्रज्ञापना १, वस्त्वितिवाक्यशेषः, अथवा प्राकृतशैल्या 'अभिधेयवल्लिंगवचनानि भवंतीति न्यायादेवं द्रष्टव्यं-तत्र का तावत् प्रज्ञापनेति, एवं सामान्येन केनचित् प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादरार्थ किंचिच्छिष्योक्तं प्रत्युच्चार्याह-'पण्णषणा दुविहा पण्णत्ता' अनेन चागृहीतशिष्यामिधानेन निर्व ॥६॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy