________________
३१
हात्मनाम् ॥ २३५ ॥ ईश्वरो वस्तुतत्वज्ञो न चाहन्तेष्ववस्थितः । नच मत्स्यानि भूतानीत्येवमेव व्यचिक्तपत् ॥ १२६॥ यदि सत्यं भवेद्विश्वं सुपुतावुपलभ्यताम् । यन्नोपलभ्यते किञ्चिदतोऽसत्खमवन्मृषा ॥ २३७ ॥ अतः ष्टथङ्नास्ति जगत्परात्मनः पृथक् प्रतीतिस्तुभृषा गुणादिवत् । आरोपित स्यास्ति किमर्थवत्ताधिष्ठान माभाति तथा भ्भ्रमेण ॥ २३८ ॥ म्वान्तस्य यद्यत्वमतः प्रतीत' ब्रह्मैवतत्तद्रजत ं हि शुक्तिः । इदन्तया ब्रह्मसदैव रूप्यते त्वारोपितं ब्रह्मणि नाममावम् ॥ २३८ ॥ तः परं ब्रह्म सद द्वितीयं विशुद्धविज्ञान नं निरञ्जनम् । प्रशान्तमाद्यन्त विहीनमक्रियं निरन्तरानन्दरस खरूपम् ॥ २४० ॥ निरस्त मायाकृत सर्व्वमेदं नित्यं २वं निष्कलमप्रमेयम् । श्ररूपमव्यक्तमनाख्यमव्ययं ज्योतिः खयं किञ्चिदिदञ्चकास्ति ॥ २४१ ॥ ज्ञात्वज्ञेयज्ञानशून्यमनन्तं निर्बिकल्पकम् । केवला खण्डचिन्मानं परं तत्त्व' विदुर्बुधाः ॥ २४२ ॥ अहेयमनुपादेयं मनोवाचा मगोचरम् ॥ अप्रमेय मनाद्यन्तं ब्रह्म पूर्णमहं महः ॥ २४३ ॥ तम्पदाम्बर
विवेकचूडामणिः