________________
प्रतीतिः किञ्चिन्न वेग्रीति जगत्प्रसिद्धेः ॥१२॥ देहेन्द्रिय प्राणमनोऽहमादयः सर्वेविकारा विषयाः सुखा दयः व्योमादिभूता न्यखिलञ्चविश्वमव्यक्तपर्यन्तमिदं ह्यनात्मा ॥१२४॥ माया मायाकायं सर्व महदा दिदेह पर्यन्तम् । अदिद मनात्मत्वं विद्धित्वं मरु मरीचिकाकल्पम् ॥॥२५॥ अथते संप्रवच्यामि खरू .. पं परमात्मनः। यदिनाय नरोवन्धान्मुक्तः कैवल्य मनुते ॥१२६॥ अस्तिकश्चित् वयं नित्यमहं प्रत्यय लम्बनः। अवस्थात्रय साक्षीसत् पञ्चकोशविलक्षणः ॥१२७॥ योविजानाति सकलं जाग्रत् खप्नसुषुप्तिषु बुद्धि तवृत्ति सद्भावमभावमहमित्ययम् ॥१२८॥ यः पश्यति स्वयं सर्व यं नपश्यति कश्चन । यश्चेतयति बुद्ध्वयादिनतद्यंचेतयत्ययम् ॥१२८॥ येन विश्वमिदं व्याप्तं यन्नव्याप्नोतिकिञ्चन । आभारूपमिद सर्व यं भान्तमनुभात्ययम् ॥१३०॥ यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु खकीयेषु वर्तन्ते प्रेरिताइव ॥१३१॥ अहङ्कारादिदेहान्ताविषयाश्च मुखादयः॥ वेद्यन्ते घटवद्येन नित्यबोध खरूपिणा ॥१३२॥
विवेकचूडामणिः