________________
IMI
क्रियाविचार:
प्रतिक्रमणा
नेनाधिकरणक्रिया, तत्र निर्वतननाधिकरणक्रिया द्विविधा-मूलगुणनिवर्तनाधिकरणक्रिया उत्तरगुणनिर्वर्तनाधिकरणक्रिया, तत्र ध्ययने
मूलगुणनिर्वतनाधिकरणक्रिया पंचानां शरीरकानां निर्वर्तन, उत्तरगुणनिर्वर्तनाधिकरणक्रिया हस्तपादांगोपांगानां निर्वर्तनं, अहवा मूलगुणनिर्वतनाधिकरणीक्रया असिशक्तिभिडमालादीनां निर्वतनं, संयोजनाधिकरणक्रिया तेषां वियुक्तानां संयोजनमिति, अहवा संयोगः विषगरहलकूडधनुयंत्रादीनां, निवर्तनाधिकर० द्रव्येण कालकूटमुद्रादीनां ६। प्रादोषिका द्विविधा- जीवनादोषिका अजीव
प्रादोषिका च, जीवप्रादोषिका पुत्र शिष्यादौ कलत्रे वा प्रदोषं गच्छति, अजीवप्रादोषिका अस्मना कंटकेन वाऽभ्याहतः अस्मान लकंटके वा प्रदोषं गच्छति ७ । परितापनक्रिया द्विविधा- स्वदेहपरितापनक्रिया परदेहपरितापनक्रिया, परस्य देहं दृष्ट्वा स्वदेह
ताडयति, परदेहपरितापनक्रिया पुत्रं शिष्यं कलत्रं ताडयति ८ प्राणातिपातक्रिया द्विविधा- स्वदेहव्यपरोपणप्राणातिपातक्रिया परदेह०, तत्र स्वदेहव्यपरोपणक्रिया यत् स्वर्गहेतोः देहं परित्यजति गिरिशिखरे,प्रज्वलित वा हुतवहं प्रविशति,अंभास वाऽऽत्मानं ४ परित्यजति, आयुधेन वा स्वदेहं विनाशयति, परदेहव्यपरोपणक्रिया अनेकविधा, तद्यथा-क्रोधाविष्टः एवं मानमायालोभमोहा०, कोधेन रुष्टो मारयति, एवं मानेन मत्तो मायया विस्वासेन लोभेन लुब्धः शौकरिकवत् मोहेन मूढः संसारमोचकवत् , ये चान्ये धर्म
निमित्तं प्राणिनो व्यापादयंति ९ । दर्शनक्रिया द्विविधा-जीवदर्शनक्रिया अजीवदर्शनक्रिया, नरेन्द्राणां निर्गमप्रवेशनस्कन्धावारप्रदलाशनं तथा तालाचराणां विभूषितानां च प्रमदानां संदर्शनं, अजीवदर्शनक्रिया चित्रकर्मपुस्तककर्मग्रंथिमवेढिमदेवकुलारामोद्यानसभा
प्रवासु दर्शनोद्यम इति १० स्पर्शनक्रिया द्विविधा- जीवस्पर्शनक्रिया अजीवस्पर्शनाक्रया, तत्र जीवस्पर्शनक्रिया स्त्रीपुंनपुंसकं वा ६ स्पृशति, संघट्टयतीत्यर्थः,अजीवस्पर्शनक्रिया सुखस्पर्शाथं मृगलोमादिवस्वजातं मुक्तकादि वा रत्नजातं स्पृशतीति ११। सामंतक्रिया
।
॥८९॥