________________
क्रियाविचार:
प्रतिक्रमणा । द्विधा- देशसामतक्रिया सर्वसामंतक्रिया, प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवत्यसयतानां सा देशसामंतक्रिया,सर्वसामन्तक्रिया यत्र ध्ययने सर्वतः समंतात्प्रेक्षकाणामागमो भवति सा सर्वसामन्तक्रिया १२अनुपातक्रिया प्रमत्तसंयतानामप्यन्नपानं प्रत्यनवगुण्डने संपातिमस॥९ ॥
त्वानां विनाश इति १३॥ अनाभोगक्रिया द्विविधा- आदाननिक्षेपणानाभोगक्रिया उत्क्रमणानाभोगक्रिया तत्रादान० रजोहरणपात्रचीवरादिकानामप्रत्युपेक्षितानामप्रमार्जितानामनाभोगेनादाननिक्षेपो, उत्क्रमणानाभोगक्रिया लंघनप्लवनधावनसमीक्षागमनागमनादि.१४ । स्वहस्तक्रिया दुविधा- जीवस्व० अजीवस्व०,जीवं स्वहस्तेन ताडयति,वस्त्रं पात्रं वा०१५ । निसर्गक्रिया द्विविधा-जीवनिसर्गक्रिया अजीवनिसर्गक्रिया, तत्र जीनिसर्गक्रिया जीवं निसजति, अजीवनि० पात्रं वा चीवरंबा १६ । वियारणक्रिया द्विविधा-1 जीववियारणकिया अजीववियारणक्रिया, जीवमजीवं वा अभासिएसु विक्केमाणो दोभासिओ वियारेति, अहवा जीवमजीवं वा विदारयतीति१७ आज्ञापनक्रिया नाम स्वपुत्रं शिष्यं वा आज्ञापयति१८अनवकांक्षक्रिया द्विविधा-स्वात्मानवकांक्षक्रिया परात्मानवकांक्षक्रिया,तत्र स्वात्मना न्यक्करोति येनात्मानं नावकांक्षति अथवा तदाचरति येन परं नावकांक्षति १९ । आरंभक्रिया द्विविधाजीवारंभक्रिया अजीवारंभक्रिया,तत्र जीवारंभक्रिया जीवानारभते,अजीवारंभक्रिया अजीवानारभते२०। परिग्रहक्रिया द्विविधा-जीवपरिग्रहक्रिया अजीवपरिग्रहक्रियार१। मायाक्रिया द्विविधा-आत्मचक्रीकरणमायाक्रिया परवक्रीकरणमायाक्रिया २२ । रागक्रिया | द्विविधा-मायाधिता लोभाश्रिता वा, अहवा तद्वचनमुदाहरति येन परस्य राग उत्पद्यते २३॥ द्वेषक्रिया द्विविधा- क्रोधाश्रिता मानाश्रिता च,क्रोधक्रिया आत्मना क्रुध्यति, परस्य वा क्रोधमुत्पादयति, मानक्रिया स्वयं माद्यति परस्य वा मानमुत्पादयति२४॥ अप्रत्याख्यानक्रिया अविरतानामेव, न क्वचिद्विरातिरस्तीति २५ । एता: पंचविंशतिः क्रिया आश्रवभूता भवतीत्येवं वाच्यं ।
SHOCALCCLASS
O CIOLOG