________________
समुद्घातः
नमस्कार प्रतरस्थोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, एषु दंडकादिषु पंचसु समयेषु सामयिक कण्डकमुत्तीर्णमितिकृत्वा समये व्याख्यायां लासमये स्थित्यनुभवकंडकघातको ज्ञेयः । अथ किमिद कण्डकमिति प्रश्ने ब्रूमहे-कण्डकमिव कण्डकं, क उपमार्थः, यथा लोके तरोः
खण्डभागः अंशः कंडकमित्याभिधीयते तथा कर्मतरोरपि खण्डं कण्डकमिति सिद्ध, अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभा॥५७४॥
| वकण्डकं वा आन्तर्मुहूर्तिकमुत्किरति, कण्डकं यतः किरति खिपति विनाशयतीत्यर्थः, एवं षष्ठे कपाटसमये औदारिकमिश्रकाययोगस्थः सप्तमे औदारिकमिश्रकाययोगस्थः अष्टमे च स्वशरीरप्रवेशसमये स्थितिकण्डकमनुभावकण्डकं च नाशार्थ स्पृष्टं सत् | अनन्तरसमय एव नंष्टुमारब्धं न तावत्कात्स्र्येन नश्यति, किंतु षष्ठादिषु समयेषु कर्मतरुकण्डकस्य स्पृष्टस्य सकलसमयेष्विति, एवं तावत्समये दलमुपैति यावदन्तमुहूर्तः पूर्ण इति । तदनेन विधिनाऽन्तर्मुहुर्तेपूरणचरमसमयानन्तरमेव कृत्स्नं कण्डकं उत्कीर्णमित्यव-1 | सेय, उत्कीर्ण नष्टमित्यर्थः । एवं प्रतिसमयमन्तर्मुहूर्तिकः स्थित्यनुभवकण्डकघातको ज्ञेयः तावद्यावत्सयोगिनोऽन्त्यसमय इति । एवमेतानि सर्वाण्यपि संख्येयानि स्थित्यनुभवकण्डकानि ज्ञेयानि, ततः स्वशरीरं प्रविष्टोऽन्तमुहूर्तमास्ते, तत उपर्यनन्तरसमय एव | बादरवाग्योगान् रो मारब्धः, ततोऽन्तमुहूर्तपूरणसमय एव बादरकाययोगबलाधानाद्वादरवाग्योगो निरुध्यमानो निरुद्धः, ततो बादरवाग्योगं निरुध्यान्तर्मुहूर्तमास्ते, न बादरयोगनिरोधः प्रवर्तत इत्यर्थः, तत उपर्यनन्तरं बादरमनोयोग निरोद्धमारब्धः, ततोऽन्तर्मुहूर्तस्यान्त्ये समय बादरकाययोगापष्टभाव बादरमनोयोगो निरुध्यमानो निरुद्धः, ततोऽन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एवं | उच्छ्वासनिश्वासो निरोद्धमारब्धः, ततोऽन्तर्मुहूतेस्यान्त्य समये बादरकाययोगोपष्टंभात् उच्छ्वासनिश्वासौ निरुध्यमानौ निरुध्धौ,ततो-& ऽन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एव बादरकाययोगं निरोद्धमारब्धः ततोऽन्तर्मुहूतेस्यान्त्ये समय बादरकाययोगी निरुध्यमानो निरुद्धः
%ERSASSIRSASREKASISATE
॥५७४॥