SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ नमस्कार वघातनानुप्रवेशेनैव घातनं ज्ञेयं । अथ द्वितीयसमये कपाटकारकस्य स्थित्यनुभावघातने को विधिरिति प्रश्नेऽभिदध्महे-प्रथमसमयघातित- समुद्घात व्याख्यायांना सत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवतिष्ठते इत्युक्तं असावपि बुद्धया पुनरसंख्येयभागाः क्रियन्ते, तस्य कपाटकारकोऽप्य संख्येयान् भागान् हन्ति, असंख्ययभागोऽवतिष्ठते, ततोऽनुभवस्यापि प्रथमसमयघातनानुभवसकाशात् योऽवशिष्टोऽनंतोऽनुभयो॥५७३॥ | ऽवतिष्ठत इत्युक्तं असावपि बुद्धया पुनरनन्तभागाः क्रियन्ते, तस्य कपाटककारोऽनंतान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, अयमपि चाप्रशस्तप्रकृत्यनुभवघातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयं, अथ नृतीयसमये प्रतरपूरकस्य स्थित्यनु| भवघातने को विधिरिति प्रश्नभिसंवादीयते, ततो द्वितीयसमयघातितसत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत इत्युक्तं असावपि बुद्धया पुनरसंख्ययभागाः क्रियते, तस्य प्रतरपूरकोऽसंख्येयान् भागान् हन्ति, असंख्येयभागोऽदतिष्ठते, ततोऽनुभवस्यापि तृतीयसमयघातितानुभवसकाशात् योऽवशिष्टोऽनन्तोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धया पुनरनन्तभागाः क्रियते, तस्य लोकपूरकोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, अयमपि च अप्रशस्तप्रकृत्यनुभवघातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयं, एवं पूर्णलोकस्य कर्मत्रयसत्कर्म आयुषः सकाशात् संख्येयगुणं जातं, अनुभवोऽनन्तः॥ एवं चत्वारः समया भवन्ति, अतः परं प्रतिनिवृत्तः पंचमे समये प्रतरे तिष्ठति कार्मणकाययोगस्थः, अथास्यामवस्थायां स्थित्यनुभवघातने को विधिरिति प्रश्ने निगद्यते- अतश्चतुर्थसमयघातितस्थितिसत्कर्मणः सकाशात् या असंख्येयभागप्रमाणावशिष्टा स्थितिरवतिष्ठत ॥५७३॥ | इत्युक्तं सा बुद्धथा संख्येया भागाः क्रियन्त, पंचमसमये प्रतरस्थः संख्येयान् भागान् हन्ति, संख्येयभागोऽवतिष्ठते, यश्चतुर्थ-18 समयघातितानुभवसकाशात् अनन्तोऽवशिष्टोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धया अनन्ता भागाः क्रियन्ते, तस्य पंचमसमये PRECICRORECAUSESAR ॐॐॐॐॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy