________________
नमस्कार व्याख्यायां
॥५७५॥
तत्स्थः तमेव क्षपयतीति अयुक्तमिति चेत् न, दृष्टत्वात्, तद्यथा- कारपत्रिकः क्रकचेन स्तंभे छिदिक्रियां प्रारभमाणः तत्स्थस्तमेव छिनति, तथा काययोगोपष्टंभात्का ये गतिरोधोऽप्यवसेयः । अत्र काययोगं निरंधन पूर्वस्पर्धकानामधस्तादपूर्वस्पर्द्धकानि करोति, अथ किमिदं स्पर्द्धकमिति प्रश्ने व्याचक्ष्महे- स्पर्धकमिव स्पर्द्धक, क उपमार्थः १, यथा लोके शालिफलककाणशानां समुदायात् मुष्टिर्भवति या स्पर्द्धकमिति शब्द्यते, कथमिति तद्विवृण्महे 'स्पर्द्ध- संहर्षे' इति शब्दाद् भवति स्पर्द्धकं, संहर्षः समुदायः पिण्ड इत्यनर्थान्तरं, अथ केषां संघर्षः इति प्रश्ने व्याचक्ष्महे, इह यथा बहूनां समुदायः क्षणे (कंडकं ) संभवति, बहूनां च काण्डकस्थककाणशानां समुदायात् मुष्टिरिति भवति, तथा शालिफलकणतुल्याणामसंख्येयानां लोकानां ये प्रदेशास्तत्प्रमाणप्रमितानामविभागपरिच्छेदानां भावप|रमाणुसज्जितानां समुदायात् काणसतुल्या वर्गणा भवति, एवमसंख्येया वर्गणा श्रेण्या असंख्येयभागप्रमाणा एकजीवे भवंति, तासां च बहुकाण्डस्थकणकाणश समुदायोत्पन्नमुष्टितुल्यानां असंख्येयानां वर्गणानां श्रेण्याः असंख्येयभागमात्राणां समुदायादेकं स्पर्द्धकं भवति, एवमसंख्येयानि स्पर्द्धकानि श्रेण्या असंख्येय भागमात्राण्येकजीवे सन्ति अथ किमिदं पूर्वपूर्वकं स्पर्द्धकानि अपूर्वस्पर्द्धकानीति च प्रश्ने व्याचक्ष्महे यानि पर्याप्तिपर्यायेण परिणमितात्मना पूर्वमेव योग निर्वर्तनार्थमुपात्तानि यानि चानादौ संसारे पुनः पुनर्योगनिर्वृत्त्यर्थं पूर्वमुपात्तान्यात्मना तानि पूर्वस्पर्द्धकानि इत्यभिधीयंत, तानि च स्थूलानि यान्यधुना क्रियन्ते तानि सूक्ष्माणि न च तथालक्षणानि अनादौ संसारे परिभ्रमता आत्मना कदाचिदप्युपात्तानि इत्यतोऽपूर्वस्पर्धकानि व्याख्यायन्ते, अथापूर्वस्पर्द्धककरणे को विधिरिति प्रश्नेऽभिदध्महे - अधस्तात्पूर्वस्पर्द्धकानामादिवर्गणा यास्तासां अविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहादसंख्येयान् भागानाकर्षति, असंख्येयभागं स्थापयति, जीवप्रदेशानामपि च असंख्येयभागमाकर्षयति, असंख्येयान् भागान् स्थापयति, एवं प्रथमसमये, द्विती
समुद्घात
॥५७५।।