SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्री नयाधिकारः आवश्यक चूर्णी उपोद्घात नियुक्ती ॥३७८|| %25% 4 हवयण-संगहभणण, एवं समासतो त्रुवते तद्विदः, किमुक्तं भवति ?-सामान्यार्थावधारणं विशेषार्थावधारणं वा, यदुक्तं-तत्र सामान्यविशेषयोरपृथक्त्वात् सामान्यस्यैवावधारणे विशेषस्य तदंतर्भूतस्यावधारणमेवेति सामान्यमेव संगृहाति संग्रहवचनं, यथा पूर्वाभिहितः अनेकप्रकारोऽपि घटः मानादिभेदेवि घटसामान्यान्तर्भूत इत्यभिन्न इति । - वच्चति विणिच्छियत्थं धवहारो सव्वदन्वेसु । सामान्येन-घटत्वमात्रेण संव्यवहतुं न शक्यत इति विनिश्चयार्थ ४ ब्रजति व्यवहारः, अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयः विनिश्चयः-निःसामान्यभावः तनिमित्तं ब्रजति गच्छति सर्वद्रव्यविषये, विशेषमात्रावलंबी व्यवहार इत्यर्थः, यथा घटमानयेत्युक्ते न ज्ञायते कतमो घट इति निश्चयः क्रियते, सौवर्ण राजतं | वा इत्यादि भाव्यं । एवं व्यवहारेणोक्ते सत्याह ऋजुमूत्रः-यथा सामान्येन न शक्यते संव्यवहतु तथाऽतीतेन भनेन अनागतेन वा अनुत्पन्नेन इति । पच्चुप्पन्नग्गाही उज्जुसुतोत्ति वर्तमानमेव गृह्णातीत्यर्थः। एवं ऋजुसूत्रेण स्वमते ख्यापिते आह शब्द:यथाऽतीतानागताभ्यां न शक्यते संव्यवहतुं तथा नामस्थापनाद्रव्यालिंगवचनभिन्नघटैन संव्यवहारः शक्यते कर्तुमिति, तत्र लिंगभिन्नो यथा तटस्तटी तटमिति, बचनभिनो यथा आपो जलमिति, अतः इच्छति विसेसिततरं पच्चुप्पण्णं णयो सहोत्ति, किमुक्तं भवति ?-वर्तमानेनापि भावघटेनैव लिंगवचनाभिन्नेन संव्यवहारः प्रवर्तत इत्येवंभूतो भावघटः प्रमाणं, स तु घटः कुंभो विति । एवं तेनाप्यभिहिते आह समभिरूढः यथा नामादिघटन शक्यते संव्यवहतुं तथा घट इत्युक्ते न कुटे संप्रत्ययः, भिन्नप्रवृत्तिनिमित्तत्वात् , ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र संक्रांतिः कृता भवति, एवं च वत्थूओ संकमणं होति अवत्थू णये समभिरूढत्ति, सर्वधर्माणां नियतस्वभावत्वादन्यत्र संक्रांत्योभयस्वभावापगमतो - ॥३७८॥ SACREASE स-%434
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy