________________
॥५॥
श्रीजनु
म्जाओ, पुणो गुरू चेव तत्थ निसीयति, तओ अणुओगविसज्जणत्थं काउस्सग करेंति कालस्स य पाटकमंति, ततो अणुण्णायाणुओगो साहू *आवश्यकहारि.वृत्ती
| निरुद्धं पवेदेति । एवमेते उद्देशादयः श्रुतज्ञानस्यैव प्रवर्त्तन्ते, न शेषज्ञानानामिति, न चेहोद्देशादिमिरधिकारः, किं तर्हि ? , अनुयोगेन, निक्षेपाः तस्यैव प्रकान्तत्वादिति, 'जति सुतणाणस्से' त्यादि (३-६) (४-६) (५-७) सर्व निगदसिद्धं यावत् । इमं पुण पट्ठवण पडुच आवस्सगस्साणुओगोत्ति, नवरमिमां पुनरधिकृतां प्रस्थापना प्रतीत्य, प्रारम्भप्रस्थापनामेनामाश्रित्यावश्यकस्य, अवश्य क्रियानुष्ठानादावश्यक
तस्यानुयोग:- अर्थकथनविधिस्तेनाधिकार इत्यर्थः, इहानुयोगस्य प्रक्रान्तत्वात्तद्गतवक्तव्यतालम्बनायाः खल्वस्या द्वारगाथायाः प्रस्तावः, & तद्यथा-'णिक्खेवेगह निकत्ति विही पवित्ती य केण वा कस्स । तद्दार भेद लक्षण तदरिहपारसा य सुत्तत्थो ॥१॥ अस्याः समुदायार्थमव-|
यवार्थ च ग्रन्थान्तरे स्वस्थान एव व्याख्यास्यामः, अत्र तु कस्येति द्वारे 'इमं पुण पट्ठवण पडुच आवस्सगस्स अणुओगोत्ति सूत्रनिपातः, 'जइ आवस्सगस्से त्यादि, (६-९) प्रश्नसूत्र,निर्वचनसूत्रं चोत्तानार्थमेव । नवरमाह चोदक:-इहावश्यक किमङ्ग किमगानीत्यादिप्रश्नसूत्रस्यानवकाश एव, नन्द्यनुयागादेवावगतत्वात, तथाहि-तत्रावश्यकमनंगप्रविष्टभुताधिकार एव व्याख्यातं, तथेहाप्यङ्गबाटोत्कालिकादिक्रमेणैव आवश्यकस्योद्देशादीनां प्रतिपादितत्वादिति, अत्रोच्यते, यत्तावदुक्तं 'नन्द्यनुयोगादेवावगतत्वा' दिति तदयुक्तं, यतो नायं नियमोऽवश्यमेव नन्दिरादौ व्याख्येयः, कुतो गम्यत इति चेत्, अधिकृतसूत्रोपन्यासान्यथानुपपत्तेः, इदमेव सूत्रं ज्ञापकमनियमस्येति, मङ्गलार्थमवश्यं व्याख्येय इति चेत् न, ज्ञानपंचकाभिधानमात्रस्यैव मङ्गलत्वात् । यच्चोक्तं 'इहाप्यनङ्गप्रविष्टोत्कालिकादिक्रमेणैवाऽऽवश्यकस्योद्देशादयः प्रतिपा|दिता' इति, एतदपि न बाधकमन्यार्थत्वात् , इहाल्मप्रविष्टादिभेदभिन्नस्य श्रुतस्योद्देशादयः प्रवर्त्तन्ते इति ज्ञापनार्थमेतदित्यन्यार्थता, अन्ये तु व्याचक्षते-चारित्र्यपि भिन्नकर्मक्षयोपशमजन्यत्वात् ज्ञानस्यानाभोगबहुलो भवति माषतुषवत् सोऽपि प्रज्ञापनीय एवेति दर्शनार्थ ॥
SERIESAKAKKA
RSES