SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ नया: श्रीअनु01 हारि.वृत्ती ॥१२५॥ CAESCARSHRESCREA5 ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् , अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाददृश्यत्वात् खपुष्पवत् , तथा परकीयमप्यवस्तु निष्फलत्वात् खपुष्पवत् , तस्माद्वर्तमानं स्वं वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा. इति, उक्त ऋजुसूत्रः। इच्छति-प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः । विशेषिततरं-नामस्थापनाद्रव्यविरहेण समानलिंगवचनपर्यायध्वनिवाच्येन च प्रत्युत्पन्न-वर्तमान, यः कः ?-'शप् आक्रोशे' शप्यतेऽनेनेति शब्दः तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुंभा न संत्येवीत मन्यते, तत्कायर्याकरणात् खपुष्पवत, न च भिन्नलिंगवचनं, भेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घट: कुंभ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः । 'वत्थूओं' गाहा (*१३८-२६४) वस्तुनः संक्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटाख्यस्य संक्रमण-अन्यत्र कुटाख्यादौ गमनं भवति अवस्तु, असदित्यर्थः, नये पालोच्यमाने, कस्मिन् ?-नानार्थसमभिरोहणात् समाभिरूडस्तस्मिन् , इयमत्र भावना-घट कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटनाद् घटः, विशिष्टचेष्टावानर्थों घट इति, तथा 'कुट कौटिल्ये' कुटनाद् कुटः, कोटिल्ययोगात् कुट इति, तथा 'कुम्भ पूरणे' कुंभनात् कुंभः, कुत्सितपूरणादित्यर्थः, ततश्च यदि घटाद्यर्थे कुटादिशब्दः प्रपद्यते तदा वस्तुनः कुटादेस्तत्र संक्रांतिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यसंफ्रान्त्योभयस्वभावोपगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समाभिरूढः । 'वंजण' इत्यादि, व्यज्यते व्यनक्तीति व्यजनं-शब्दः, अर्थस्तु तद्गोचरः, तच्च तदुभयं-शब्दार्थलक्षणं एवंभूतो नयः विशेषयति, इदमत्र हृदयं-शब्दमर्थेन विशेषयति, अर्थ च शब्देन, 'घट चेष्टाया'मित्यत्र चेष्टया घटचेष्टां(शब्द)विशेषयति, घटशब्देनापि चेष्ठां, न स्थानभरणक्रियां, ततश्च यदा योपिन्मस्तकव्यवस्थितश्चेष्ठावानर्थों घटशब्देनो-1 ACCASCHECRECAC ॥१२५॥ ष्ट
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy