SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीअनु० मं हारि.वृत्ती 555555 उत्कृष्टं सप्तरात्रिकाणां भृतो वालानकोटीनामिति प्रायोग्यः, तत्रैकाहिक्यो मुण्डिते शिरस्यकेनाहा या भवतीति, एवं शेषेष्वपि भावना कार्येति । कथंभूत १, इत्याह-सम्मढे सण्णिचिए'त्ति सम्मृष्ट:-आकर्णभृतः प्रचयविशेषाग्निविडा, किंबहुना ?, इत्थं भृतोऽसौ येन तानि वालाप्राणि | नानिर्दहेत , नापि वायुहरेत् , न कुथेयुः, प्रचयविशेषात्सुषिराभावाद्वायोरसंभवान्नासारतां गच्छेयुरित्यर्थः,न विध्वंसेरन् ,अत एव न कतिपयपरिशाटमप्यागच्छेयुः, अत एव पूतित्वेनार्थाद्विभक्तिपरिणाम: ततश्च पूतिभावं न कदाचिदागच्छेयुः, अथवा न पूतित्वेन कदाचित्परिणमेयुः, 'तेणं वालग्गा समए' ततस्तेभ्यो वालाप्रेभ्यः समय २ एकैकं वालाग्रमपहत्य कालो मीयत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो नीरजा निर्लेपो निष्ठितो भवति एतावान् कालो व्यावहारिकापोद्धारपस्योपममुच्यते इति शेषः, तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोष्ठागारः | स्वल्पवालाप्रभावेऽपि क्षीण' इत्युच्यते तदभावज्ञापनार्थ आह-नीरजाः, एवमपि कदाचित्कवितसूक्ष्मवालाग्रावयवसंभव इति तदपोहायाहनिर्लेप इति, एवं त्रिभिः प्रकारैः विरित्तो निष्ठितः इत्युच्यते, रसवतीदृष्टान्तेन चैतद्भावनीयं, एकार्थिकानि वा एतानि, 'सेत्त' मित्यादि निगमनं, शेष सूत्रसिद्धं, यावत् नास्ति किंचित्प्रयोजनमिति, अनोपन्यासानर्थकताप्रतिषेधायाह-केवलं तु प्रज्ञापनार्थ प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः, आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात् , उच्यते, सूक्ष्मपल्योपमोपयोगित्वात्सप्रयोजनैव प्ररूपणेत्यदोषः, वक्ष्यति च 'तत्थ णं एगमेगे वालग्गे' इत्यादि, आह-एथमपि नास्ति किंचित्प्रयोजनमित्युक्तमयुक्तमस्यैव प्रयोजनत्वाद्, एतदेवं, एता-15 वतः प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति, शेषमुत्तानार्थ यावत्तानि वालाप्राण्यसंख्ययखंडीकृतानि दृष्ट्यवगाहनातोऽसंख्येयभागमात्राणि, एतदुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्ध चक्षुदर्शनः छद्मस्थः पश्यति तदसंख्येयभागमात्राणीति, अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि, अयमत्र भावार्थः-सूक्ष्मपनकजीवावगाहनाक्षेत्रादसंख्येयगुणक्षेत्रावगाहनाना CSCRk
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy