SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीअनु० हारि. वृत्तौ ॥ ७५ ॥ सूत्रोपज्ञं ज्ञापकसिद्धमेव । अपत्यतद्धितनाम सुप्रसिद्धेनाप्रसिद्धं विशेष्यते, विशेष्यते मात्रा पुत्रः, यथा आश्वलायन:, इह पुत्रेण माता, तंजावित्थगरमाता चक्कवडिमातेत्यादि तदेतत्तद्धितं । 'से किं तं धातूए,' भू सत्तायां परस्मैपदे भाषा इत्यादि, तत्र भू इत्ययं धातुः सत्तायामर्थे वर्चते अतो (धातोः) इत्ययं प्रमाणभावः, नामनैरुक्तं निगदसिद्धं, भावप्रमाणनामता चास्य भावप्रधानशब्दनयगोचरत्वात्, गुरवस्तु व्याचक्षते -सा| मासादिनाम्ना गुणाभिधानादितिभावः, अनेनैव चोपाधिना शेषभेदा भावनीया इत्त्येवं यथागमं मया अपौनरुक्त्यं दर्शितम्, अन्यथापि सूक्ष्मधिया भावनीयमेव, अनन्तगमपर्यायत्वात्सूत्रस्य तदेतत्प्रमाणनाम, तदेतन्नामेति, नामेतिमूलद्वारमुक्तं । 'अधुना प्रमाणद्वारमभिधित्सुराद्द 'से किं तं पमाणे' ( १३१ - १५१ ) प्रमीयत इति प्रमितिर्वा प्रमीयते वा अनेनेति प्रमाणं, चतुर्विधं प्रज्ञप्तं इत्यादि, प्रमेयभेदात् द्रव्यादयोऽपि प्रमाणं, प्रस्थकादिवत् ज्ञानकारणत्वात्, तत्र द्रव्यप्रमाणं ( १३२- १५१ ) द्विविधं प्रदेशनिष्पन्नं विभागनिष्पन्नं च, प्रदेशनिष्पन्न परमाण्वाद्यनंत प्रदेसिकांतं, स्वात्मनिष्पन्नत्वादस्य तथा चाण्वादिमानमिति, विभागनिष्पन्नं तु पंचविधं प्रज्ञप्तं, विविधो भागः विभाग:-विकल्पस्ततो निर्वृत्तमित्यर्थः, पंचविधं मानादिभेदात् तत्र मानप्रमाणं द्विविधं प्रज्ञप्तं, तद्यथा - धान्यमानप्रमाणं च रसप्रमाणं च 'से किं त' मित्यादि, धान्यमानमेव प्रमाणं । 'दो असतीओ पसती दो पसतीओ य सेइएत्ति, अत्र आह-ओमत्थमियं जं धन्नप्पमाणं सो असती, उप्पराहुत्तमिदं पुण प्रसृतिरिति, इह च मानमधिकृत्य द्वे प्रसूती, 'से किं त' मित्यादि, धान्यमानप्रमाणं तं सुगममेव, नवरं मुत्ताली - मोट्ठा मुख:-कुशुल इति । 'से किं त' मित्यादि, रसमानमेव प्रमाणं २, धान्यमानप्रमाणात्सेतिकादेः प्रमाणेन चतुर्भागविवर्द्धितं अभ्यन्तरशिखायुक्तं शिखाभागस्य तत्रैव कृतत्वात् रम्रमानं विधीयत इति, तद्यथा चतुःषष्टिकेत्यादि, तत्थ चैव छप्पण्णपलसतपमाणा माणिया, तीसे चउसट्टिभागो, चडसट्टिभागा य चउपलप्रमाणा, एवं बत्तीसियादओवि जाणियव्वा, वारको घटविशेषः, शेषा अपि भाजनविशेषा एव तदेतन्मानं । 'से किं द्वितीये प्रमाणद्वारे द्रव्यप्रमाणं ॥ ७५ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy