SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीअनुमापदार्थप्रधानः, 'अव्ययं विभक्तिसमीप' इति (पा. २-१-६) सिद्धे विभाषाधिकारे पुनर्वचनं येषां तु समयाशब्दो मध्यवचनः तेषामप्राप्ते | 1तद्धितनाहारि.वृत्तो मामस्य मध्येनाशनिर्गता 'अनुर्यत्समया' इति (पा.२-१-१५) समासः, अनुप्राम, एवमणुणइयं इत्यादि, यथा एकः पुरुषः तथा बहवः पुरुषा अत्र नि प्रमाण 'सरूपाणामेकशेष एकविभक्ता' (पा. १-३-६४) विति समानरूपाणां एकविभाक्तियुक्तानां एकः शेषो भवति-सति समास एकः शिष्यते, अन्ये नाम ॥७४॥ | लुप्यन्ते, शेषश्च आत्मार्थे लुप्तस्य लुप्तयोः लुप्तानां वाऽर्थे वर्त्तते, बहुष्वर्थेषु बहुवचनं, पुरुषौ पुरुषाः, एवं कार्षापणाः, तदेतत्सामासिकं । 'से किं तं तद्धितए?, २ तद्वितं कर्मशिल्पादीति, तथा चाह-'कम्मे सिप्पसिलोए' इत्यादि (१९२-१४९) कर्मतद्धितनाम दौषिकादि, तत्र दूषाः पण्यमस्य | 'तदस्य पण्यं' (पा. ४-४-५१) तदिति प्रथमासमर्थने, अस्येति पष्ठयर्थे, यथाविहितं प्रत्ययः ठक् दौषिकः, एवं सूत्रं पण्यमस्य सूत्रिक | इत्यादि, तथा शिल्पतद्धितनाम वस्त्रं शिल्पमस्य तत्र 'शिल्प' (पा. ४-४-५५) मस्मिन्नर्थे यथाविहितं प्रत्ययः ठक् वाखिकः, एवं तंतुवायनं | शिल्पमस्य तांत्रिकः, इह तुण्णाएत्ति भाणितं, न चात्र तद्धितप्रत्ययो दृश्यते कथं तद्वितं?, उच्यते, तद्वितप्रत्ययप्राप्तिमात्रमंगीकृत्योक्तं, प्राप्तिश्च न तद्धितार्थेन विना भवति, अन्तः स्थगितार्थस्तद्धितार्थः, तद्धितः प्रत्ययस्तर्हि केन बाधितः १, उच्यते, लोकरूडेन वचनेन, यतस्तेनार्थः प्रतीयते, येन चार्थः प्रतीयते स शब्दः, अथवाऽस्मादेव वचनादत्र जातास्तद्विता इति तद्भूितसंज्ञा, श्लाघातद्धितनाम श्रवण इत्यादि, अस्मा देव सूत्रनिबंधात् श्लाघार्थस्तद्वितार्थ इति । संयोगतद्धितमाह-राज्ञः श्वसुर इत्यादावप्यस्मादेव सूत्रनिबंधात् तद्धितार्थतेति, चित्रं च शब्दप्राभृत| मप्रत्यक्षं च न इत्यतो न विद्मः, समीपतद्धितनाम गिरेः समीपे नगरं गिरिनगरं, अत्र 'अदूरभवश्चे' (पा. ४-२-७०) त्यण् न भवति, गिरि- ॥७४॥ | नगरमित्येव प्रसिद्धत्वात् , विदिशाया: अदूरभवं णगरं वैदिशं, अदूरभवेत्यण् भवति, एवं प्रसिद्धत्वात् , संजूहतद्धितनाम तरंगवतीकार इत्यादि | संजूहो-ग्रन्थसंदर्भकरणं, शेषं पूर्ववद्भावनीयमिति । ऐश्वर्यतद्धितनाम 'राज्ञे त्यादि, अत्रापि राजादिशब्दनिबंधनमैश्वर्यमवगंतव्यं, शेषं |
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy