________________
श्रीअनु हारि. वृत्तौ
॥ ६३ ॥
अहंकारो दर्पः स्मयो मत्सर ईध्येत्यर्थः, माया प्रणिधिरुपधिर्निकृति वंचना दम्भः कूटमभिसंधानं साठ्यामनार्जवमित्यर्थः, लोभो रागो गार्ग्यभिच्छा मूर्च्छाऽभिलाषो संग: कांक्षा स्नेह इत्यर्थः, माया लोभश्च प्रेम क्रोधो मानश्च द्वेषः, तत्र यदईदवर्णवादहेतुलिंगं अर्हदादिश्रद्धानविघातकं | दर्शनपरीषहकारणं तन्मिथ्यादर्शनं, यन्मिथ्यास्वभावप्राचितपरिणामं विशेषाद् विशुध्यमानकं सप्रतिघातं सम्यक्त्वकारणं सम्यग्दर्शनं, यन्मिथ्या| त्वस्वभावचितं विशुद्धाविशुद्धश्रद्धा कारि तत्सम्यग्मिथ्यादर्शनं, त्रिविधं दर्शनमोहनीयमुक्तं कर्म, चारित्रमोहनीयं द्विविधं कषायवेदनीयं नोकषायवेदनीयं च, द्वादश कषायाः अप्रत्याख्यान्याद्याः क्रोधायाः, नव नोकषायाः हास्यादयः, नारक तिर्यग्योनीसुरमनुष्यदेवानां भवनशरीरस्थितिकारणमायुकं, तांस्तानात्मभावान् नामयतीति नाम कर्मपुद्गलद्रव्यं, प्रति स्वं गत्यभिधानकारणं, जातिनाम पंचविध मे केन्द्रियजातिनामादिकारणं, शरीरनाम शरीरोत्पत्तिकारणं, तदंगोपांगनाम यथा शरीरनाम पंचविधौदारिकशरीरनामादिकार्येण साधितं यदेषामेवांगोपांग निव्वत्तिकारणं तदंगोपांगनाम, तथाऽन्यत् शरीरनाम्नः कथं?, अंगोपांगाभावेऽपि शरीरोपलब्धेः तच्च प्राक् शरीरत्रये नान्यत्र, बोंदिः तनुः शरीरमिति पर्यायः, अनेकता च जघन्यतोऽप्यौदारिकतैजस कार्मणयोंदिभावात् वृंदं तु तद्गतांगोपांग संघातभेदात् संघातः पुनरेकैकांगादेरनन्तपरमाणुनिर्वृत्तत्वादिति । तथा सामायिकादिचरणक्रियासिद्धत्वात्सिद्धः, तथा जीवादितस्वशेधाद् बुद्ध:, तहा बाह्याभ्यन्तरप्रन्थभेदनेन मुक्तत्वान्मुक्त:, तथा प्राप्तव्यप्रकर्षप्राप्तौ परि:- सर्वप्रकारैर्निर्वृत्तः परिनिर्वृतः, संसारान्तकारित्वादन्तकृत्, एकान्तेनैव शारीरमानसदुःखप्रहीणा: सर्वदु :प्रहीणा इति उक्तः क्षायिकः । 'से किं तं खओवसभिए ?, खओवसमिए दुविहे पण्णत्ते, तं० खओवसमे य खओवसमनिष्फण्णे य, ' तत्र क्षयोपशमश्चतुर्णां घातिकर्मणां केवलज्ञानाप्रतिपन्नकानां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणां क्षयोपशमः, ण मिति पूर्ववत्, इह चोदीर्णस्य क्षथः अनुदर्णिस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह औपशमिकोऽप्येवंभूत एव, न, तत्रोपशमितस्य प्रदेशानुभवतोऽप्यवेदनादस्मिंश्च
औदयिकादयो भावाः
॥ ६३ ॥