________________
श्रीअनु०
एकत्र जीवप्राधान्यमन्यत्राजीवप्राधान्यमाश्रीयत इति, ततश्चोपपन्नमेव जीवोदयनिष्पन्नं अजीवोदयनिष्पन्नं चेत्यलं विस्तरेण, से तं उदयिए । औदयिकाहारि.वृत्ती दासे किं तं उमसमिए', वसमिए दुविहे पन्नत्ते, तं०-उवसमे य उवसमनिष्फण्णे य, तत्रोपशमो-मोहनीयस्य कर्मणः अनन्तानुबन्धादिभेद- दयो भावाः ॥२॥
भिन्नस्य उपशमः, उपशमश्रेणीप्रतिपन्नस्य मोहनीयभेदाननंतानुबंध्यादीन् उपशमयतः, यत उदयाभाव इत्यर्थः, णमिति पूर्ववत् , उपशम एवोप| शमिकः, उपशमनिष्पन्नस्तूपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, से तं उवसमिए । 'से किं तं खइए १,४
खइए दुविहे पण्णत्ते, तंजहा-खए य खयनिप्फन्ने य, तत्र क्षयः अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिभेदानां, क्षयः कर्माभाव एवेत्यर्थः,* 'ण' मिति पूर्ववत् , क्षय एव क्षायिकः, क्षयनिष्पण्णस्तु फलरूपो विचित्र आत्मपरिणामः, तथा चाह-'उप्पण्णणाणदंसणे' त्यादि, उत्पन्ने श्या| मतापगमेनादर्शमंडलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शने यस्य स तथाविधः, अरहा अविद्यमानरहस्य इत्यर्थः, रागादिजेतृत्वाज्जिनः, केवलमस्यास्तीति केवली, संपूर्णज्ञानवानित्यर्थः, अत एवाह-क्षीणाभिनिबोधिकज्ञानावरणीय इत्यादि, विशेषविषयमेव, यावत् अनावरण:-अविद्यमानावरण: सामान्येनावरणरहितत्वात् , विशुद्धांबरे चन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनीवतया च, निर्गतावरणो-निरावरण: आगंतुकेतरावरणस्याप्यभावात् राहुरहितचन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनर्भावतयाऽऽवरणं यस्यासौ क्षीणावरणः, अपाकृतमलावरणजात्यम|णिवत् , तथा ज्ञानावरणीयेन कर्मणा विविधम्-अनेकैः प्रकार प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्त इति. निगमनम, एकार्थिकानि वैतानि. नयमतभेदेनान्यथा वा भेदो वाच्य इति, केवलदर्शी-संपूर्णदर्शी,क्षीणनिप्फन्नेन च, निद्रादिस्वरूपमिदं-'सुहपडिबोहो निद्दा दुहपडिबोहो य निहनिदा य । पयला होति ठियस्स उ पयलपयला य चंकमओ ॥ १॥ अतिसंकिलिदुकम्माणुवेदणे होइ थीणगिद्धीओ । महनिदा दिणचिंतियवावार
॥६२॥ | पसाणी पायं ॥ २॥ सातावेदनीयं प्रीतिकारी, कृध कोपे' क्रोधनं क्रोधः, कोपो रोषो दोषोऽनुपशम इत्यर्थः, मानः स्तंभो गर्व उत्सुको
CARRIERS