________________
श्रीअनु० हारि. वृत्तौ ॥ ६१ ॥
( कातन्त्र रूप. ११५ ) पदान्ते यौ एकारौकारौ ताभ्यां परः अकारो लोपमापद्यते, ततः सिद्धं ते अत्र, से तं लोवेणं, से किं तं पयतीए यथाऽग्नी एतौ इत्यादि, एतेषु पदेषु 'द्विवचनमनौ' ( कातन्त्रं ६२ ) द्विवचनमौकारान्तं यत् भवति तल्लक्षण न्तरेण स्वरेण स्वरे परतः प्रकृत्या भवति, सिद्धं अभी एतौ इत्यादि, विकारेणापि दंडस्य अमं इत्यादि, अत्र 'समानः सवर्णे दीर्घो भवति परच लोपमापद्यते' (का० २४) सिद्धं दंडा इत्यादि, से तं विगारेणं, एवं चतुर्णाम | पंचनाम्नि 'से किं' मित्यादि सूत्रं ( १२५-११३ ) तत्राश्व इति नामिकं द्रव्याभिधायकत्वात्, खल्विति नैपातिकं, खलुशब्दस्य निपातत्वात्, धावतीत्याख्यातिकं क्रियाप्रधानत्वात् परीत्योपसर्गिकं सर्वतोभाव इत्युपसर्गपाठे पठितत्वात्, संयत इति मिश्र, समेकीभाव इत्यस्योपसर्गत्वात् 'यती प्रयत्न' इति च प्रकृतेरुभयात्मकत्वात् मिश्रमिति, तदेतत्पंचनाम ||
'से किं तं छणामे ?, छव्विहे पण्णत्ते' इत्यादि ( १२६ - ११३ ) अत्र षड् भावा औदयिकादयः प्ररूप्यन्ते, तथा च सूत्र - 'से किं तं उदयिए १, २ दुविहे पण्णत्ते, तं० उदए य उदयनिष्फण्णे य, अत्रोदय:-अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिलक्षणानामुदयः सत्ताऽवस्थापरित्यागेनोंदीरणावलिका मतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, 'ण' मिति वाक्यालङ्कारे, अत्र चैवं प्रयोगः- उदय एव औदधिकः, उदयनिष्पन्नस्तु द्वेधा-जीवोदयनिप्पण्णे य अजीवोदयनिष्फण्णे य, तत्र जीवे उदयनिष्पन्नो जीवोदयनिष्पन्नः, जीवे कर्मविपाकानेवृत्त इत्यर्थ, अथवा कर्मोदयसहकारिकारणकार्या एव नारकत्वादय इति प्रतीतं, अन्ये तु जीवोदयाभ्यां निष्फण्णो जीवोदयनिष्पन्न इति व्याचक्षते, इदमप्यदुष्टमेव परमार्थतः समुदायकार्यत्वात्, एवमजीवोदयनिप्फण्णोपि वाच्यः, तथा चौदारिकशरीरप्रायोग्यपुद्गलग्रहणशरीरपरिणतिश्च न तथाकर्मोदयमन्तरेणेति अत उक्तमौदारिकं वा शरीरभित्यादि, औदारिकशरीरप्रयोगपरिणामिकतया द्रव्यं तच्च वर्णगंधादिपरिणामितादि च न चेदमौदारिकशरीरव्यापारमन्तरेण तथा परिणमतीति, एवं वैक्रियादिष्वपि योजनीयं, इह च वस्तुतः द्वयोरपि द्रव्यात्मकत्वे
पंचनाम
पड्नाम च
॥ ६१ ॥