SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीअनु० हारि. वृत्त ॥ ६० ॥ द्रव्यनाम गुणनाम पर्याय नाम, एतानि प्रायो ग्रंथत एव भावनीयानि, नवरं द्रव्यगुणपर्यायस्वरूपं द्रव्यं धर्मास्तिकायादि, गुणा गत्यादयः, तद्यथा- गतिगुणो धर्मास्तिकायः स्थितिगुणोऽधर्मास्तिकाय: अवगाहगुणमाकाशं उपयोगगुणा जीवा वर्त्तनादिगुणः कालः पुद्गलगुणा रूपादयः, पर्यायास्त्वमीषाम गुरुलघवः अनंता, आह-तुल्ये द्रव्यत्वे किं पुद्गलास्तिकायगुणादीनां प्रतिपादनं न धर्मास्तिकायादिगुणादीनां, ( यथा) पुद्गलानामिन्द्रियप्रत्यक्षविषयतया तस्य तद्गुणानां च सुप्रतिपादकत्वं न तथाऽन्येषामिति, इह च वर्णः पंचधा कृष्णनीललोहितकापोतशुक्लाख्यः प्रतीत एव कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः, गंधो द्विधा - सुरभिर्दुरभिश्च तत्र सौमुख्यकृन् सुरभिः दौर्मुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टग्रह इति संसर्गजत्वादेव नोक्तः, एवं रसेष्वपि संसर्गजानभिधानं वेदितव्यं रसः पंचविधस्तिक्तकटुकषायाम्लमधुराख्यः, श्लेष्मादिदोषहन्ता तिक्तः वैशद्यच्छेदनकृत्कटुः अन्नरुचिस्तंभनकर्मा कषायः आश्रवणक्लेदन कृदम्ल: ह्लादनबृंहणकृन्मधुरः, लवण: संसर्गजः, स्पर्शोऽष्टविधः स्निग्धरूक्षशीतोष्णलघुगुरुमृदुकीठनाख्यः, संयोगे सति संयोगिनां बन्धकारणं स्निग्धः तथैवाबन्धकारणं रूक्षः वैशद्यकृत्सुमन:स्वभावः शीतो मार्दवपाककृदुष्णः प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः अधोगमनहेतुर्गुरुः संनतिलक्षणो मृदुः अनमनात्मकः कठिन, संस्थानानि संस्थानानुपूर्व्या पूर्वोक्तानि, पर्यायानां त्वेकगुणकालकादि, तत्रैकगुणकालकस्तारतम्येन कृष्णकृष्णतरकृष्णतमादीनां यत आरभ्य प्रकर्षवृत्तिः, द्विगुणकालकस्तु ततो मात्रया कृष्णतरः, एवं शेपेष्वपि भावनीयं यावदनंतगुणकृष्ण इति तत्पुनर्नाम सामान्येनैव त्रिविधं प्राकृतशैलीमधिकृत्य, स्त्रीलिंगादिनाम्नां उदाहरणानि प्रकटार्थान्येव, 'से तं तिणामे' ति । 'से किं तं चउनामे' स्यादि, ( १२४-११२ ) तत्राऽऽगमेन पद्मानि पयांसि अत्र 'आगमः उदनुबंध: स्वरादन्त्यात्परः' आगच्छतीत्यागम:, आगम उकारानुबंध: स्वरादंत्यात्परो भवति, सिद्धं पद्मानीत्यादि, से तं आगमेणं, लोपेनापि ते अत्र इत्यादि, अनयोः पदयोः संहितायां 'पदात्परः पदान्ते लोपमकार:' त्रिनाम चतुर्नाम च ॥ ६० ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy