SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पड़द्रव्याणि तत्क्रमथ श्रीअनु त्यर्थः, आशब्दा मर्यादाभिविधिवाची, मर्यादायामाकाशे भवन्ति भावाः स्वात्मनि च, तत्संयोगेऽपि स्वभाव एवावतिष्ठन्ते नाकाशभावमेव यान्ति, अभिविधौ तु सर्वभावब्यापनादाकाशं, सर्वात्मसंयोगादिति भावः, शेषं धर्मास्तिकायवत्, तथा जीवति जीविष्यति जीवितवान् ॥४२॥ जीवः, शेष पूर्ववत्, तथा पूरणगलनधर्माणः पुद्गलाः त एवास्तिकायः पुद्गलास्तिकाय इत्यनेन सावयवानेकप्रदेशिकस्कन्धग्रहोऽप्यव | गन्तव्यः, तथाऽद्धत्ययं कालवचन: स एव निरंशत्वादतीतानागतयोविनिष्टानुत्पन्नत्वेनासत्त्वात्समयः, समूहाभाव इत्यर्थः, आवलिकादयः GIसन्तीति चेत्, न, तेषां व्यवहारमात्रतयैव शब्दात, तथाहि-नानेकपरमाणुनिर्वृत्तस्कन्धसमूहवत् आवलिकादिषु समयसमूह इति । आह-एषां त कथमस्तित्वमवगम्यते ? इति, अत्रोफयते, प्रमाणात , तसंवेदं प्रमाण-इह गतिः स्थितिश्च सकललोकप्रसिद्धा कार्य वर्तते, कार्य च परिणामा-18 ४ पेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु तथा दर्शनात् , तथाच मृत्पिण्डभावेऽपि दिगदेशकालाकाशप्रकाशाचपेक्षाकारणमन्तरेग न घटो भवति, यदि स्यान्मृपिण्डमात्रादेव स्यात् , न च भवति, गतिस्थिती अपि जीवपुद्गलाख्यपारिणामिककारणभावेऽपि न धर्मास्तिकायाख्यापेक्षाII कारणमन्तरेण भवत एव, यतश्च भावो दृश्यते अतस्तत्सत्ता गम्यत इति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भकः अधर्मास्तिकायः मत्स्यानामिव मेदिनी, विवक्षया जलं वा, प्रयोगगतिस्थिती अपेक्षाकारणवत्यौ कार्यत्वाद् घटवत्, विपक्षबैलोक्यशुधिरमभावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् । आह-आकाशा-11 181 स्तिकायसत्ता कथमवगम्यते १, उच्यते, अवगाहदर्शनात्तथा चोक्तं-- अवगाहलक्षणमाकाश' मिति, आह-जीवास्तिकायसत्ता कथमवग म्यते ?, उच्यते, अवप्रहादीनां स्वसंवेदनसिद्धत्वात् , पुद्गलास्तिकायसत्ताऽनुमानतः, घटादिकार्योपलब्धेः सांव्यवहारिकप्रत्यक्षतश्चीत, आह-कालसत्ता कथमवगम्यते ?. उच्यते, बकुलचम्पकाशोकादिपुष्पफलप्रदानस्य नियमेन दर्शनात्, नियामकच काल इति, आह--पूर्वानुपूर्वी CHAUSSSASSAUSAUSIS 56SOAMROGRA ॥४२॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy