SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आनुपूर्वी भेदाः श्रीअनु० * वस्तुसंहतिरिति भावः, इयमानुपूर्वी दशविधा-दशप्रकाराः प्रज्ञप्तास्तद्यथा 'नामानुपूर्वी ' त्यादि, वस्तुतो भावितार्थत्वात्सूत्रसिद्धमेव तावद्यावत् हारि.वृत्तौ काउवणिहिया य'(७२-५१). अणोवणिहिया य तत्र निधानं निधिया॑सो विरचना निक्षेपः प्रस्तावः स्थापनेति पर्यायाः, तथा च लोके-निधेहीदं निहितभिदभित्यर्थे निक्षेपार्थो गम्यते, उप-सामीप्येन निधानमुपनिधिः-विवक्षितस्यार्थस्य विरचनायाः प्रत्यासन्नता, उप॥३१॥ निधिः प्रयोजनमस्या इति प्रयोजनार्थे ठक् औपनिधिकी, एतदुक्तं भवति-अधिकृताध्ययनपूर्वानुपूर्व्यादिरचनाश्रयप्रस्तारोपयोगिनी औपनिधिकीत्युच्यते, न तथा अनापतिधिकी, 'तत्थ ण 'मित्यादि, तत्र याऽसावौपनिधिकी सा स्थाप्या-सांन्यासिकी तिष्ठतु तावद् अल्पतरवक्तव्यत्वा|त्तस्याः, किंतु यत्रैव बहु वक्तव्यमस्ति तत्र य: सामान्योऽर्थः सोऽन्यत्रापि प्ररूपित एव लभ्यत इति गुणाधिक्यसंभवात् सैव प्रथममुच्यत इति, आह च सूत्रकार:-'तत्थ ण' मित्यादि, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, नैगमव्यवहारयोः संग्रहस्य च, अयमत्र भावार्थ:-हौघत: सप्त नया भवन्ति, नैगमादयः, उक्तं च-नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसम भिरूद्वैवंभूता नयाः' एते च नयद्वयेऽवस्थाप्यन्ते-द्रव्यास्तिकः पर्यायास्तिकश्च, तत्राद्यानयो द्रव्यास्तिकः, शेषाः पर्यायास्तिक इति, पुनः द्रव्यास्तिकाकोऽप्यौघतो द्विभेद:-अविशुद्धो विशुद्धश्च, अविशुद्धो नैगमव्यवहारौ विशुद्धः संग्रह इति, कथं ?, येन नैगमव्यवहारौ कृष्णाद्यनेकगुणाधिइष्ठितं त्रिकालविषयं अनेकभेदस्थितं नित्यानित्यं द्रव्यमित्येवंवादिनी, संग्रहस्तु परमाण्वादिसामान्यवादीत्यलं विस्तरेण । 'से किं त' मित्यादि |अत्राप्यल्पवक्तव्यत्वात् संग्रहाभिधानं पश्चादिति, पञ्चविधाः प्रज्ञप्तास्तद्यथा 'अर्थपदपरूपणते ' त्यादि, (७३-५३) तत्र अर्यत इत्यर्थः तद्युक्तं-तद्विषयं तदर्थ वा पदं अर्थपदं तस्य प्ररूपणा-कथनं तद्भावोऽर्थपदप्ररूपणता, संज्ञासंझिसम्बन्धप्ररूपणतेत्यर्थः, तथा भंगसमुत्कीदिर्तनता, इहार्थपदानामेव समुदितविकल्पकरणं भंगः भंगस्य भंगयोः भङ्गानां वा समुत्कर्त्तिनं-उच्चारणं भंगसमुत्कीर्तनं तद्भाव इति समासः, SA%EC%AF%ESARKAॐछ ॥३१॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy