________________
श्रीअनु:
हारि-वृत्ती ॥ २३॥
RECAMERGRECC154GR3SAX
निगमनं । 'से किंत' मित्यादि (४४-३८) वस्तुतो भावितार्थमेव, यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः प्रज्ञप्तस्तद्यथा, 'सञ्चित्ते
स्कन्ध त्यादि प्रश्नसूत्रं ( ४७-३९) चित्तं मनोऽर्थविज्ञानमिति पर्यायाः सह चित्तन वर्तत इति सचित्तः सचित्तश्चासौ द्रव्यस्कन्धश्चेति समासः,
निक्षेपाः इह विशिष्टैकपरिणामपरिणतः आत्मप्रदेशपरमाण्वादिसमूहः स्कन्धः अनेकविध:-अनेकप्रकारः व्यक्तिभेदेन प्रज्ञप्तः-प्ररूपितः, तद्यथा'यस्कन्ध' इत्यादि, हयः-अश्वः स एव विशिष्टकपरिणामपरिणतत्वात्स्कन्धो हयस्कन्धः, एवं शेषेष्वपि भावनीयं, इह च सचित्तद्रव्यस्कन्धाधिकारादात्मन एव परमार्थतश्चेतनत्वादसङ्ख्येयप्रदेशात्मकत्वाच कथञ्चिच्छरीरभेदे सत्यपि हयादीनां हयादिजीवा एव गृह्यन्ते इति सम्प्रदायः, प्रभूतोदाहरणाभिधानं तु विजातीयानकस्कन्धाभिधानेकपरमपुरुषस्कन्धप्रतिपादनपरदुनयनिरासार्थ, तथा चाहुरेके- " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥" एवं हि मुक्तेतराद्यभाव-* प्रसङ्गात् व्यवहारानुपपत्तिरिति । 'सेत' मित्यादि निगमनं । ' से किं त' मित्यादि, (४८-४०) अविद्यमानचित्तः अचित्तः अचित्तश्चा| सौ द्रव्यस्कन्धश्चेति समासः, अनेकविधः प्रज्ञप्त इति पूर्ववत् , तद्यथा-द्विप्रदेशिक इत्यादि आनिगमनं सूत्रासद्धमिति, 'सेकिंत' मित्यादि (४९-४०) मिश्रः-सचित्ताचित्तसंकीर्णः ततो मिश्रश्चासौ द्रव्यस्कन्धश्चेति समासः, सेनाया-हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायलक्षणाया अग्गस्कन्धं अग्रानीकमित्यर्थः, तथा मध्यमः पश्चिमश्चति, 'सेत' मित्यादि निगमनं, 'अहवे' त्यादि (५०-४०) सुगम यावत् से किं तं कासिणकूखंधे (५१-४०) कृत्स्न:-संपूर्णः कृत्स्नश्चासौ स्कन्धश्चेति विग्रहः 'सचेव' इत्यादि, स एव हयस्कन्ध इत्यादि, | आह-यद्येवं ततः किमर्थ भेदेनोपन्यास इति, उच्यते, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्धचा निकृष्य जीवा एवोक्ताः इह तु जीवप्रयोगपरिणामितशरीरसमुदायलक्षणः समन एव कृत्स्नः स्कन्ध इति, अन्ये तु जीवस्यैव कृत्स्नस्कन्धत्वाद् व्यत्ययेन व्याचक्षते,
AASACARREARCRACK