SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीअनु हारि वृत्तौ ॥१६॥ लौकिक द्रव्याव. भव्यशरीराभ्यां व्यतिरिक्तं द्रव्यावश्यकमिति निरूपितशब्दार्थमेव त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरं, 'से किं त'मित्यादि (१९-२२ )एते राजेश्वरादयः मुखधावनादि कृत्वा ततः पश्चाद्राजकुलादौ गच्छंति तदेतल्लौकिकं द्रव्यावश्कमिति क्रिया, तत्र राजा-चक्रव गदिमहामाण्डालिकान्तः ईश्वरो-युवराजा माण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबंधभूषितः माडम्बिक:-छिन्नमंडलाधिपः कोटुम्बिक:-कतिपयकुटुम्बप्रभुः इभ्यः-अर्थवान् , स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति, श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक्, सेनापतिः- नरपतिनिरूपितोष्ट्रहस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थनायक:- 'गणिम धरिमं मेजं पारिच्छेजं व दव्वजाय तु । घेत्तर्ण लाभट्ठी | वञ्चइ जो अण्णदेसं तु ॥१॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहनामं धणोव्व लोए समुब्वहति ॥ २ ॥ प्रभृतिग्रहणेन प्राकृतजनपरिग्रहः, 'कल्लं पादुप्पभाताए' इत्यादि, कल्लमिति श्वः प्रज्ञापकापेक्षमेतत् , यतः प्रज्ञापको द्वितीयायामेव प्रज्ञापयति, प्रादुः प्रकाशन इत्यर्थे धातुः, ततश्च प्रकाशप्रभातायां रजन्यां सुविमलायामित्यादिनोत्तरोत्तरकालभाविना विशेषणकलापेनाऽत्यंतोद्यमवतां मानवानां तमावश्यककालमाह, 'फुल्लोत्पलकमलकोमलोन्मीलिते' इहोत्पलं पद्ममुच्यते कमलस्त्वारण्यः पशुविशेषः ततश्च फुल्लोत्पलकमलयो:-विकशितपद्मकमलयोः कोमलं-अकठोरं उन्मीलतं यस्मिन्निति समासः, अनेनारुणोदयावस्थामाह, 'अहापंडुरे पहाए' | अथ आनन्तर्ये, तथा 'रक्तासोगे' त्यादि, रक्ताशोकप्रकाशकिंशुकशुकमुखगुंजार्द्धरागसदृशे, आरक्त इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके कमलाकरो-हृदादिजलाश्रयस्तस्मिन्नलिनखिण्डं तद्बोधक इत्यनेन स्थलनालिनव्यिवच्छेदमाह, यद्वा कमलाकरनलिनीखण्डयोर्भेदनेवै ग्रहणं, 'उत्थिते' उद्गते सूर्ये सहस्ररश्मी-सहस्रकिरणे दिनकरे-आदित्ये तेजसा ज्वलति सति, विशेषण बहुत्वं महत्त्वाशयशुद्धयर्थ कर्त्तव्यमितिख्यापनार्थ, RECORRESS
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy