SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ रोभव्य | शरीराव. श्रीअनुका चेति, क्षेत्रगुणतश्च तत्र यथाभद्रिकदेवतागुणादाराधना सिद्धिमासादयतीति, अन्ये तु व्याचक्षते-यस्मिन् शिलातले सिद्धः कश्चिदिति, गतं स्थितहारि-वृत्ती मित्यनर्थान्तरं, अहो दैन्यविस्मयामंत्रणेषु त्रिष्वपि युज्यते, तत्रानित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थमामंत्रयत | आमंत्रणमिति, अनेन प्रत्यक्षेण उत्पत्तिकालादारभ्य प्रतिसमयं शीर्यत इति शरीरं तदेव पुद्गलसंघातनरूपत्वात् समुच्छ्यस्तेन जिनदृष्टेन भावेन ॥१५॥ | भूतपूर्वगत्या जीवितशरीरयोः कथश्चिदभेदात् आवश्यकमित्येतत्पदमाख्यातं सामान्यविशेषरूपेण, अन्ये तु व्याचक्षते-' आधवियं' ति प्राकृत शैल्या छान्दसत्वाञ्च गुरोः सकाशादागृहीतं, प्रज्ञापितं सामान्यतो विनेयेभ्यः, प्ररूपितं प्रतिसूत्रमर्थकथनेन, दर्शितं प्रत्युपेक्षणादिदर्शनेन, इयं दाक्रिया पाभरक्षरैरुपात्ता इत्थं च क्रियत इति भावना,निदर्शितं कथचिदगृहतः परयाऽनुकम्पया निश्चयेन पुनः पुनर्दर्शितं, उपदर्शितं सकलनययुक्तिभिः, अन्ये त्वन्यथापि व्याचक्षते, तदलं तदुपन्यासलक्षणेन प्रयासेनेति, अतः द्रव्यावश्यकमभिधीयते, आह-आगमक्रियातीतमचेतनमिदं कथं द्रव्या| वश्यकमभिधीयते ?, अत्रोच्यते, अतीतकालनयानुवृत्त्या, यथा को दृष्टान्त:!, तत्र दृष्टमर्थमन्तं नयतीति दृष्टान्तः, लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं स दृष्टान्त इत्यन्ये, अयं मधुकुम्भ आसीदित्यादि, अतीतमधुघृतघटवदिति भावना । सेत' मित्यादि निगमनं । ‘से किं त'मित्यादि (१७-२१) भव्यो योग्यो दलं पात्रमिति पर्यायाः, तस्य शरीरं तदेव भाविभावाऽऽवश्यककारणत्वात् द्रव्यावश्यक भव्यशरीरद्रव्यावश्यकं, 'जो जीवो' त्यादि, यो जीवो योन्या-अवाच्यदेशलक्षणया जन्मत्वेन सकलनिर्वृत्तिलक्षणेन, अनेनामगर्भव्यवच्छेदमाह, निष्कान्तो-निर्गतोऽनेनैव शरीरसमुच्छ्येणेति पूर्ववत्, आदत्तेन-गृहीतेन, अन्ये त्वभिदधति- 'अत्तएणं' ति आत्मीयेन, जिनदृष्टेन भावेनेत्यादि पूर्व| वत्, अथवा तदावरणक्षयोपशमलक्षणेन 'सेयकाळे' त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते, न सावच्छिक्षते, तदेतद्भाविनी वृत्तिमंगकृित्य | भव्यशरीरद्रव्यावश्यकमित्युच्यते, यथा को दृष्टान्त इत्यादि भावितार्थ यावत 'से त' मित्यादि । 'से किं तमित्यादि (१८-२२) ज्ञशरीर ४॥१५॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy