________________
श्रीअनु० हारि वृत्तौ
॥ १४ ॥
तदेवानुभूतभावत्वात् द्रव्यावश्यकं ज्ञशरीरद्रव्यावश्यकं । आवस्सएत्तिपदस्थाधिकारजाणगस्सेत्यादि, आवश्यकमिति यत्पदं भव्यशररिद्रव्यावश्यकं, अस्यार्थ एवार्थाधिकारः तद्गता अर्थाधिकारा वा गृह्यन्ते तस्य तेषां वा ज्ञातुः यच्छरीरकं, संज्ञायां कन्, किंभूतं ?- व्यपगतच्युतच्यावितत्यक्तदेहं व्यपगतम्-ओघतञ्चतनापर्यायादचेतनत्वं प्राप्तं च्युतं देवादिभ्यो भ्रष्टुं च्यावितं तेभ्य एवायुःक्षयेण भ्रंशितं त्यक्तदेहं जीवसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवपरित्यक्तोपचयं, तत्र व्यपगतं सर्वगताऽऽत्मनः प्राकृतमपि भवति तद्विच्छित्तये च्युतं इदमपि स्वभावत एव कैश्चिदिष्यते तद्व्यपोहाय च्यावितं, इत्थं त्यक्तोपचयमिति चैतज्जीवशरीरयोर्विशिष्टसम्बन्धज्ञापनार्थमिति, उक्तं च वृद्धैः" पज्जायंतरपत्तं खीरंव कमेण जह दधित्तेणं । तह चेतणपज्जायादचेयणत्तं ववगतति ॥ १ ॥ चुतमिह ठाणम्भहं देवोष्व जहा विमाणवासाओ । इय जीवितचेयणादिकिरियामहं चुतं भणिमो ॥ २ ॥ चइयंमि चावितं जं जह कप्पा संगमो सुरिंदेणं । तह चावियमिति जीवा पलिएणाउक्खणति ॥ ३ ॥ आहारसत्तिजणिताऽऽहार सुपरिणामजोवचयसुण्णं । भण्णइ हु चत्तदेहं देहोवरओत्ति एगट्ठा ॥ ४ ॥ ' एवमुक्तेन विधिना जीवेन- आत्मना विविधमनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तथा चान्यैरप्युक्तं-' बंधणछेदत्तणओ आउक्स्त्रयउव्व जीवविप्पजढं । विजढंति पगारेण जीवणभावद्वितो जीवो ॥ १ ॥ ' ततश्चेदं व्यपगतादिविशेषणकलापयुक्तं यावज्जीवविप्रमुक्तं ज्ञशरीरद्रव्यावश्यकमिति गम्यते, कथं १, यस्मादिदं शय्यागतं वा संस्तारगतं वा सिद्धशिलातलगतं वा दृष्ट्रा कश्चिदाह अहो ! अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेन आवश्यकमित्येतत्पदमाख्यातमित्यादि, तस्मादतीतकालनयानुवृत्त्याऽतीतां वृत्तिमपेक्ष्य द्रव्यावश्यकमित्युच्यत इति क्रिया, यथा को दृष्टान्त इति १, प्रश्ननिर्वचनमाह-अयं मधुकुम्भ आसीदयं घृतकुम्भ आसीदित्यादि अक्षरगमनिका, भावार्थ उच्यते तत्र शय्यासंस्तारको प्रतीतौ, सिद्धशिलातलं तु यत्र शिलातले साधवस्तपः परिकर्म्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाअनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते
नोआगम द्रव्ये भेदाः"
॥ १४ ॥