SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीअनु० हारि. वृत्तौ ॥ १३ ॥ एक: अनुपयुक्तो देवदत्तः आगमत एकं द्रव्यावश्यकमित्यादि, अस्य व्यवहारनिष्ठत्वात् व्यवहारस्य च विशेषायत्तत्वात् विशेपव्यतिरेकेण च सामान्यासिद्धेः, विशेषाभ्युपगमसाम्यादतिदेशेनैवाधिकृतनयमताभिधानलक्षणेष्टार्थसिद्धेर्लाघवार्थ नैगमनयमतोपन्यासानन्तरं व्यवहारनयमतोपन्यास इति । 'संगहस्से' त्यादि, संग्रहस्यको वाऽनेके वाऽनुपयुक्तो वा अनुपयुक्ता वा आगमतो द्रव्यावश्यकं वा द्रव्यावश्यकानि वा 'से एग' त्ति तदेकं द्रव्यावश्यक, सामान्यापेक्षया, द्रव्यावश्यक सामान्य मात्रप्रतिपादनपरत्वादस्य, सामान्यव्यतिरेकेण विशेषासिद्धेः, 'उज्जुसुत्तस्से - त्यादि, ऋजुसूत्रस्यैको वाऽनुपयुक्तो देवदत्तः आगमतश्च एक द्रव्यावश्यकं पृथक्त्वं नेच्छति, अयमंत्र भावार्थ:- वर्त्तमानकालभावि आत्मीयं चच्छति, तस्यैवार्थक्रियासमर्थत्वात् स्वधनवत्, अतीतानागतपरकीयानि तु नेच्छति, अतीतानागतयोर्विनष्टानुपपन्नत्वात् परकीयस्य च स्वकार्याप्रसाधकत्वादिति । ' तिन्हं सद्दणयाण' मित्यादि, त्रयाणां शब्दनयानां शब्दसमभिरुदैवंभूतानां ज्ञः अनुपयुक्तः अवस्तु, अभाव इत्यर्थः, ' कस्मादिति कस्मात्कारणात्, यदि ज्ञः अनुपयुक्तो न भवति, कुत एतद् ?, उपयोगरूपत्वात् ज्ञानस्य ततश्च ज्ञोऽनुपयुक्तश्चेत्यसंभव एव, 'सेत' मित्यादि, तदागमतो द्रव्यावश्यकं, आह-कोऽयमागमो नाम इति उच्यते, ज्ञानं, कथमस्य द्रव्यत्वं, भावरूपत्वात् ज्ञानस्येति, सत्यमेतत् किंत्वागमस्य कारणमात्मा देहः शब्दश्च द्रव्यं च कारणमुक्तमतस्तत्कारणत्वादागम इति, कारणे कार्योपचारात् । ' से किं तं नोआगमतो इत्यादि (१५-१९ ) अथ किं तन्नोआगमतो द्रव्यावश्यकं १, नोआगमतो इत्यत्र आगमसव्वनिसेहे नोसो अव देसपडिसेहे । सव्वे जह णसरीरं भव्वस्स य आगमाभावा ॥ १ ॥ किरियागमुच्चरंतो आवासं कुणति भावसुण्णोत्ति । किरियाऽऽगमो ण होई तस्स निसेहो भवे देसे ॥ २ ॥ नोआगमतो द्रव्यावश्यकं त्रिविधं प्रज्ञतं, तद्यथा— ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यावश्यकं । ' से किं त मित्यादि ( १६-१९ ) प्रश्नसूत्र, ज्ञातवानिति ज्ञः तस्य शरीरं उत्पादकालादारभ्य प्रतिक्षणं शीर्यत इति शरीरं द्रव्ये नयाः ॥ १३ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy