________________
146
द्रव्यावश्यकाधिकार
श्रीअनुदा पक्षालम्बनं शास्त्रमभिगृह्यते, शिक्षितं भवति, स तत्र वाचनादिभिर्वर्त्तमानोऽपि द्रव्यावश्यकमिति क्रिया, अत्र च 'सुपां लुाग' त्यादिना छंदास हारि.वृत्ती | एन(इति)शिक्षितमित्यपि भवति, तत्र शिक्षितमित्यंतं नीतमधीसमित्यर्थः, स्थितमिति चेतसि स्थितं न प्रच्युतामतियावत् , जितमिति परिपाटी
लकुर्वतो द्रुतमागच्छतीत्यर्थः, मितमिति वर्णादिभिः परिसंख्यातमिति हृदयं, परिजितामिति सर्वतो जितं परिजितं, परावर्तनां कुर्वतो यदुत्क्रमे॥९ ॥
णाप्यागच्छतीत्यभिप्रायः, नाम्ना समं नामसमं, नाम-अभिधानं, एतदुक्तं भवति-स्वनामवत् शिक्षितादिगुणोपेतमिति, घोषा-उदात्तादयः वाचनाचार्याभिहितघोषैः समं घोषसम, अक्षरन्यूनं हीनाक्षरं न हीनाक्षरमहीनाक्षरं, अधिकाक्षरं नाधिकाक्षरमनत्यक्षरमिति, विपर्यस्तरत्नमालागतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिंस्तदव्याविद्धाक्षरं, उपलाकुलभूमिलाङ्गलवन्न स्खलितमस्खलितं, न मिलितममिलित असदृशधान्यमेलकवत् न विपर्यस्तपदवाक्यग्रन्थमित्यर्थः. असंसक्तपदवाक्यविच्छेदं. चेति, अनेकशावग्रन्थसंकरात अस्थानछिन्नग्रन्थनाद्वा। | न व्यत्याऽऽनेडित कोलिकपायसवत् भेरीकंथावचेत्यव्यत्यास्रोडितं, अस्थानछिन्नमन्थनेन व्यत्यामेडितं यथा 'प्राप्तराज्यस्य रामस्य राक्षसा &ानिधनं गते' त्यादि, प्रतिपूर्ण ग्रंथतोऽर्थतश्च, तत्र ग्रन्थतो मात्रादिभिर्यत्प्रतिनियतप्रमाणं छंदसा वा नियतमानमिति, अर्थतः परिपूर्ण नाम |
न साकांक्षमव्यापकं स्वतंत्रं चेति, उदात्तादिघोषाविकलं परिपूर्णघोषं, आह-घोषसममित्युक्तं ततोऽस्य को विशेषः ? इति, उच्यते, घोषसममिति शिक्षितमधिकृत्योक्तं प्रतिपूर्णघोषं तूच्चार्यमाणं गृह्यत इत्ययं विशेषः, कंठश्चौष्ठी कंठोष्ठं प्राण्यङ्गत्वादेकवद्भावस्तेन विप्रमुक्तमिति विग्रहः, नाव्यक्तबालमूकभाषितवत् , वाचनया उपगतं गुरुवाचनया हेतुभूतयाऽवातं, न कर्णाघाटकेन शिक्षितमित्यर्थः, पुस्तकाद्वा अधीतमिति, स इति सत्त्वः 'ण' मिति वाक्यालकारे तत्राऽऽवश्यके वाचनया प्रतिप्रश्नेन परावर्त्तनेन धर्मकथया वर्तमानो द्रव्यावश्यकमिति वाक्यशेषः | नानुप्रेक्षया व्यापूतो द्रव्यावश्यक, कस्मादू?, अनुपयोगो द्रव्य' मिति कृत्वा, अनुप्रेक्षया तु तदभावः, तत्र प्रन्थतो शिष्याऽध्यापनं वाचना
हा॥९॥