________________
श्रीअनु० हारि.वृत्तौ
वाक्यालकारे जीवस्य वा यावत्तदुभयानां चावश्यकमिति नाम क्रियते 'सेत्त' मित्यादि, तदेतन्नामावश्यकमिति समुदायार्थः, अवयवार्थ- आवश्यकस्वयं-'आवस्सयंति नामं कोई कासति जहिच्छिया कुणति । दीसइ लोए एवं जह साहिग देवदत्तादी ॥ १॥ अज्जीवेसुवि केसुवि आवास
| निक्षेपाः भणति एगदव्वं तु । जह अचित्तदुममिण भणति सप्पस्स आवासं ॥ २॥ जीवाण बहूण जहा भणंति अगणिं तु मूसगावासं । अज्जीवाबिहु बहवो जह आवासं तु सउणिस्स ॥ ३ ॥ उभयं जीवाजीचा तण्णिफण्णं भणंति आवासं | जह राईणावासं देवावासं विमाणं वा ॥४॥ समुदाएणुभयाणं कप्पावासं भणंति इंदस्स । नगरनिवासावासं गामावासं च इञ्चादि ॥ ५ ॥ 'से किं' तमित्यादि (१०-१२)तत्र स्थाप्यत | इति स्थापना स्थापना चावश्यकं चेति स्थापनावश्यकं, आवश्यकवत: स्थापनेत्यर्थः, स्थापनालक्षणं चेदं- यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः लेप्यादि कर्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥१॥ यत् 'ण' मिति वाक्यालङ्कारे काष्ठकर्मणि वा यावदावश्यकमिति स्थापना स्थाप्यते, 'सेत्त' मित्यादि, तदेतत्स्थापनाऽऽवश्यकमिति समुदायार्थः, अवयवार्थस्त्वय- आवस्सय करेन्तो ठवणाए जं ठविजए साहू। तं तह ठवणाबास भण्णति साहेजिमेहिं तु ॥ १॥' काष्ठ कर्म काष्ठकर्म तच्च कुट्टिमं तस्मिन् , चित्रकर्म प्रतीतं, पुस्तकर्म धीउल्लिकादि वस्रपल्लव| समुत्थं वा संपुटकं मध्यवर्तिकालेख्यं वा पत्रच्छेदनिष्फण्णं वा. उक्तं च-'धीउल्लिगादि वेल्लियकम्मादिनिव्वत्तियं च जाणाहि । संपुडगवत्ति-11 लिहियं पत्तच्छेज्जे य पोत्थंति ॥१॥' लेप्यकर्म प्रतीतं, प्रन्थिसमुदायजं पुष्पमालावत् जालिकावद्वा, निवर्तयन्ति च केचिदतिशयनैपुण्यान्वितास्तत्राप्यावश्यकवन्त साधुमित्येवं वेष्ठिमादिष्वपि भावनीयं, तत्र वेष्टिनं वेष्टनकसंभवमानन्दपुरे पूरकवत्, कलाकुशलभावतो वा कश्चिद् वनवेष्टनेन चावश्यकक्रियायुक्तं यतिमवस्थापयति परिमं-भरिम सगर्भरीतिकादिभृतप्रतिमादिवत्, संघातिमं कंचुकवत्, अक्ष:-चन्दनकः ॥७ ॥ बराटक:-कपर्दकः, एतेषु एको वा आवश्यकक्रियावान् अनेके का तद्वत: सद्भावस्थापनाया वा अस-द्वावस्थापनया वा, तत्र तदाकारवती सद्भाव