________________
८ ध्वजखमामू.४०
(तओ पुणो) ततः पुनः सा त्रिशला अष्टमे स्वप्ने ध्वजं पश्यति. किंविशिष्टं ध्वजं ?-(जच्चकणगलट्ठिपइट्ठिअं) जात्यं-उत्तमजातीयं यत् कनक-सुवर्ण तस्य या यष्टिस्तत्र प्रतिष्ठितं, सुवर्णमयदण्डशिखरे स्थितं इत्यर्थः, पुनः किंवि०१-(ममूहनीलरत्तपीअसुकिल्लत्ति) समूहीभूतानि बहूनीत्यर्थः नीलरक्तपीतशुक्लानि, कृष्णनीलयोरक्यात् पञ्चवर्णमनोहराणीत्यर्थः (सुकुमालुल्लसिअत्ति) सुकुमालानि उल्लसन्ति-वातेन लहलहायमानानि इत्यर्थः एवंविधानि यानि (मोरपिच्छकयमुद्धयं) मयूरपिच्छानि तैः कृता मूर्धजा इव-केशा इव यस्य स तथा तं, अयमर्थः-यथा मनुष्यशिरसि वेणिर्भवति तथा तस्य ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽ|स्तीति (धयं ) ध्वज, इदं विशेष्यं, पुनः किंवि०? (अहिअसस्सिरी) अधिकसश्रीकं-अतिशोभितं इत्यर्थः, पुनः किंवि० ?–एवंविधेन सिंहेन राजमानं इति विशेषणयोजना, अथ कीदृशेन सिंहेन ?-(फलिअसंखंकत्ति) स्फटिक-रत्नविशेषः शङ्कः-प्रसिद्धः अङ्कोऽपि-रत्नविशेषः (कुंददगरयत्ति) कुन्दस्य-धवलपुष्पविशेषस्य माल्यं दकरजांसि-जलकणाः ( रययकलसत्ति) रजतकलशो-रूप्यघटः (पंडुरेण ) उक्तसर्ववस्तुवत् उज्ज्वलवर्णेन, (मत्थयत्थेण ) मस्तकस्थितेन, चित्रतया ध्वजशिरसि आलेखितेनेत्यर्थः ( सीहेण ) सिंहेन इति विशेष्यं, | पुनः कीदृशेन सिंहेन ?-(रायमाणेण ) राजमानेन, सुन्दरत्वात् शोभमानेनेत्यर्थः ( रायमाणं) राजमानं इति तु योजितं, पुनः कीदृशेन सिंहेन ?-(भित्तुं ) भेत्तुं-द्विधाकर्तु, किं?-(गगणतलमंडलं) आकाशतलमण्डलं (चेव) उत्प्रेक्षायां (ववसिएण) सोद्यमेनेव, अयमर्थः-ध्वजस्तावद्वायुतरङ्गेण कम्पते, कम्पमाने च ध्वजे सिंहोऽपि